________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(१३) दपि तदुभृतां मनागपि पीडामसौ नानुभवेत् । तेष्वेकोऽजल्पत्-क्षितिपते ! ममौषधं निपीतं सद्रोगं निहन्ति, असति च रोगे तमुत्पादयते । तच्छ्रुत्वा नरपतिरवादीत्-भोः ! नाहममुं कामये ? यदेतत्प्रसुप्तसिंहोस्थापनप्रायमस्ति । द्वितीयोऽवदत्-नरपते ! मदीयं भैषज्यं यः पिबति स रोगान्मुच्यते, तदलद्भावे नो किश्चित्पुष्गाति नैवाऽपकरोति । राजा न्यगदत्-भोः ! तवाप्यौषधं भस्मनिहुतप्रायमेव मन्ये । तृतीयोऽवदत्स्वामिन् ! मामकमेतदोषधं निपीतं सदवश्यमुन्मूलयते रोगानशेषान् , तदभावे च रोगान्तरमनुत्पादयच्छरीरं पुष्णाति, बलं बुद्धिं वीर्यश्च वर्धयते । इति श्रुत्वा प्रामोदततमां भूजानिः । ततस्तेन दत्तमौषधमेव पुत्रमपीप्यत् , भूरि रायं प्रदाय सत्कृतवांश्च तृतीयवैद्यम् । तद्वदिदं कल्पमपि श्रोतृणां प्राग्भवार्जितमशुभं कर्मप्रचयं तथा विहन्ति, यथा पुन:वोत्पत्तुं शक्येत । प्रणाश्य च सर्वा आपदः सुखसन्ततिमनुभावयते, परिपुष्णाति च चारित्रगुणान् , अधिगमयति च मोक्षमनायासेन । ५ क्षेत्रगुणदर्शनम्
अथ चतुर्मासकरणाय प्रथमं साधुभिः क्षेत्रगुणा गवेषणीयाः । तच्च क्षेत्रं, जघन्यमुत्कृष्टं मध्यमं चेति त्रिधा भवति । भैक्षसौलभ्यनिर्वद्यस्थण्डिलभूमि-स्वाध्यायसौलभ्य-जिनालयसद्भावलक्षणं चतुगुणोपेतं तजघन्यमवगच्छत । भवन्ति च यत्र त्रयोदशगुणास्तदुत्कृष्टमुच्यते । यथा-पथिकर्दमाऽभावः १, द्वीन्द्रियादिजीवाऽनुत्पत्तिः २, निरवद्या बहिभूमिः ३, स्त्रीपशुपण्डकादिसंसर्गरहितोपाश्रयः ४, दधिपयसां भूयसी लब्धिः ५, भविकश्रावकाणां प्रचुरा वसतिः ६, दक्षभिपजां सद्भावः ७, औषधस्य सौलभ्यम् ८, श्राद्धानां वेश्मसु धनधान्यादेमहान् संग्रहः ९, साधुभक्तिकारी भव्यो नरपतिः १०, ब्राह्मणतापसादिवर्गः साधूनामवज्ञाऽऽशङ्कानुत्पादः ११, जनसमुदायो महाभद्रकः १२, निर्विघ्न स्वाध्यायशुद्धिश्च १३ । जघन्यादाधकमुत्कृष्टात्रयोदशगुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org