________________
(१२)
पीठिकासहित प्रथमं व्याख्यानम् । यत ?, तदाऽमायिकत्वाच्छिष्यो जगौ-प्रभो ! मार्गे नाटकदर्शनादि. यान् काला तिक्रमोऽभूदिति तथ्यं वदन्तमेनमबोधयद् गुरुः--वत्स ! जास्वप्येतन्नाऽवलोकनीयम् । यदेतत्पश्यतां साधूनां पापं लगति । त्वमेतदज्ञानाद्राक्षीरतएव मिथ्यादुष्कृतं गृहाणेति श्रुत्वा तत् प्रायच्छत् । स एवान्यदा स्थण्डिलादागच्छन्मार्गे नृत्यन्ती नटी वीक्ष्य प्राज्ञवाद व्यपृशत्-यन्मां गुरुर्नटनर्तनप्रेक्षणं न्यषेधी तर्हि तस्मादप्यधिकरागविधानपटीयसीयं नटी, तदवलोकनमपि निषिद्धमेति, न मयाऽत्र स्थातव्य मित्थं विमृश्य स्वस्थानमायातः। ___ नन्वेवमेतेषां मध्यमजिनसाधूनामेव धर्मो बोभवीतुतमाम् । ये पुनः प्रथमतीर्थकृत्साधवः प्रकृत्या ऋजवो जडाश्च सन्ति, तेषां धर्मः कथमुत्पद्येत ?, अज्ञानप्रकृतिकत्वात् । ये च नैसर्गिकवक्रजडात्मानो वीरसाधनो वर्तन्ते, तेषामत्यन्ताभाव एव स्याद्धर्मस्य, इति कश्चिन्माशङ्केत । यतः प्रथमजिनसाधव ऋजुजडत्वान्न स्खलन्ति, अतएव भावस्य वैशुद्ध्येन भवतितमां धर्मः । एवं वक्रजडाश्चरमविभुसाधवोऽपि ऋजुप्राज्ञापेक्षया यद्यप्यवैशुद्ध्यमञ्चन्ति, तथाप्येतेषां धर्माऽत्यन्ताभावो न बोद्धव्यः, तथाभाषणे दोषभाग् भवेत् । तदुकम्-“ जो भणइ नत्थि धम्मो, न य सामाइयं न चेव य वयाइं । सो समणसंघवज्झो, कायवो समणसंघेण" ॥ १॥ ४ कल्पतिहितकरत्वे दृष्टान्तः___ योऽयं दशधा कल्पोऽभिहितः, स खलु तृतीयभिषग्भैषज्यवद्धितकारी वर्त्तते । तत्कथा चैवम्-कस्यचिदेकस्य राज्ञः प्रियतर एक एव पुत्र आलीत् । कदाचिन्मे सूनुं कोऽपि रोगो माबाधतामिति विमृशता तेन भूभुजाऽनागतानां रोगाणां चिकित्तायै वैद्यत्रयी समाहृता । तानागतानुवाचैवम्-भो भिषग्वराः ! भवन्तः शास्त्रनिष्णाताः प्रख्याताश्च सन्तीति हेतोर्मपुत्राय तदौषधं वितरन्तु, यन्निपीय यावज्जीवं जातुचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org