________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(११) झटिति तेन निर्मतिकेनैकाञ्जलिवूली पितुर्मुखे निक्षिप्ता । तदवलोक्य पित्रा निरधारि. यदयं महामूर्खा जातः । पुनरेकदा वषातुरं तुरगं जलं पाययितुं स्नापयितुश्च तमादिशन्, तदाह -पितः ! इदं द्वयमपि नो करिष्यामि किन्वेकमेव स्नानं जलायनं वेति । तदुक्ति श्रुत्वा पिता जगाद-यदि समुभयं न विधित्सासि. तर्हि याहि, तुरगं तटाकान्तीत्वा स्नपयित्वा तूर्णमिहैहि । तदा स दुर्मतिर्दध्यौ-मयाऽवश्यं द्वयं नैव कार्यम् । भणितश्च पित्रास्नानायैवेति तन्मुखं दृढं बद्धवा केवलं स्नपयित्वैव तृषात्तमपि घोटकं गृहमानयत् । तत्रावसरे प्रतिबद्धमुखं पिपासया व्याकुलीभवन्तमश्वं विलोक्य 'किमनेन जडतमेन पशुप्रायेण पुत्रेण ' इति विचिन्त्य पिता तदैव गृहान्निरकाशयत् । प्रोवाचैवम् --रे ! 'पथि गच्छता त्वया कचित्कोऽपि मिलेम महता स्वरेण नमरणीयः । पित्रा निष्काशितः सोऽचलत् । किपरं गत्वा क्वचिजालं वितत्य तिष्ठन्तं मृगयुं विलोक्याऽत्युच्चैः प्रणतिं व्यधात् । तदैव तत्रादेन पलायितान्मृगानालोक्य स व्याधस्तं भृशं जघान, प्रान्ते मूर्खमवगत्य तत्याज । बभाण च-रे वराक ! ' अग्रे कमप्यालोक्य गुत्यैव त्वया गन्तव्यम् , नो चेदित्थमेवाऽन्योऽपि हनिष्यति ।' तदने गच्छन् मार्गे चौरगवेपणाय यान्तं कोहपालं दृष्ट्वा स्तेन इव छन्नतया चलितुं लग्नस्तथायान्तं तमालोक्य चौराधिया निगृह्य दण्डादिना बाढं निहत्य प्रान्ते मूर्ख विदित्वा मुमोच । जजन्य च--नराधम ! 'यत्र भूयसीमका तिष्ठन्ती जनतां पश्येस्तत्रैवमवध वक्तव्यं यदीदृशं दिनं वः कदापि माभूत ।' अथ तन्मुक्तः स कियद्दरमागत्यैकस्यां नगयाँ विवाहोत्सवे सम्मिलिता जनता निरीक्ष्य प्रोच्चैरजल्पत्-भो भो लोकाः !, भवतां सदने जातुचिदीदृशं कार्य माभू. दिति, अमङ्गलमेतच्छ्रुत्वा तेऽपि पुरेव नितरां जघ्नुः । तदा सोऽवक् -मोः ! मां मा निहत ? यदहं मार्गे केनापि कोट्टपालेनैवं वक्तुमभिदधे । ततस्ते मोअमिति मौनमौज्झन् । अशिक्षि च-दुर्मते ! अधुना याहि, परमन्यत्र जनसमाजे विलोकिते ' सदा वः किलैवमेव दिनमस्त्विति भाषिव्यम् । ' अथैवं शिक्षितः सोऽग्रे चचाल । ग्रामान्तरे च राज्ञः शवं वहन्तः क्रोशन्तश्च प्रजापुत्रप्रधानादिभूयांसो लोकाः श्मशानभूमि यान्ति स्म, तदा सोऽत्युच्चैर्वदितुं लग्न:-पदा युष्मा सभीगेव दिनमस्तु । इत्याकर्णयन्तः कियन्तः सेवकाः शिखामादाय तं ताडयामासुः । पश्चान्महामूर्ख जानानास्ते जहुः । इत्थं मौर्यातदे पदे महाकटं सहमानः कियद्भिर्दिवरात्मसदनमायातः सः ।
३ ऋजुप्राज्ञत्वे दृष्टान्तः
द्वाविंशतिजिनतीर्थे कश्चित्साधुः स्थण्डि लमगमत् । आतिचिरेण समायातं तमप्राक्षीत्सरिः-भोः ! इयती वेला कथङ्कारमजा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org