________________
(१०)
पीठिकासहितं प्रथमं व्याख्यानम्। मातापितृभ्यां बहुधा शिक्षितोऽपि तदुक्ति श्रेयसीमपि नैव जग्राह, निर्भीर्भवंस्तदग्रे प्रत्युत्तरयन्नेकदा पित्रादिना शिक्षित:-वत्स ! गुरुजनानामग्रत एवं मावादीः । तदनु एकदा पित्रादिवर्गस्तं सदने संस्थाप्य कस्मैचित्कार्याय बहिरगमत् , तदा 'गुरुजनाग्रे न भाषितव्यम् ' इति गृहीतशिक्षा संस्मृत्य कपाटं पिधायाऽङ्गणे खट्वोपरि गत्वा शिश्ये । अचिरादेव समायातः पित्रादिपरिजनो बहिस्तिष्ठश्विरमाजुहाव, पुनः पुनस्तारस्वरैराहूतोऽपि स यदा नोवाच तदा क्रुद्धः पिता कुड्यमुल्लंघ्यान्तर्गत्वा हसन्तं तमालोक्य मुखे चपेटां दत्वाऽधाक्षीत-अरे ! इयती वेलां बहिस्तिष्ठन्नहमवादयं, तच्छृण्वबपि कथं कपाटं नोद्घाटितवान् , नो किश्चिजल्पितवान् था ? सोऽधक्-पितः ! पुरा त्वमेव ममैवमशिक्षयथा:-यद्गुरुजनादेरभिमुखं त्वया नो गदनीयमिति मौनमाश्रित्याऽतिष्ठम् , तत्र को मे दोषः, यन्मे कुप्यसि ? जगादैवं पिता-अरेमूर्ख ! 'वृद्धानामग्रे कार्यमन्तरा न वक्तव्यम् , सति कारणे तु वक्तव्यमेव ' इति पितुः शिक्षणं सहर्ष गृहीत्वा तमूचे-अद्यप्रभृति यथा भणसि, तथैव वदिष्यामि सत्यवसरे । पुनरन्यदा बहुभिर्व्यापारिजनैः सहाऽऽलपन्नासीत्सः, गृहे च माता राबोडी पक्त्वा तमेव शिशुमुवाचशिशो ! याहि पितरं ब्रूहि यद्गृहमागच्छतु झटिति सुपाचितां राबोडी भुक्त्वा पुनः कार्य करोत्विति । शिशुरपि त्वरया तत्र गत्वा सकलजनसमक्षमुच्चैजगाद-पितः । गृहेऽद्य माता राबोडीमपाक्षीदतस्त्वां तदशनाय तूर्णमाकारयति । तदेहि पश्चादेतदवशिष्टं कार्य कर्त्तव्यम् । इति श्रुत्वा लजितः श्रेष्ठी ततश्चलित्वा मार्गे तमवादीत्-अरे ! इंदृशं लेजाकरं वचनं सदसि कथमवादीः १, पुत्रोऽजल्पत्-किमहं कुर्याम् , त्वया पुरैवमशिक्षि-सति कार्ये महता स्वरेण याच्यमिति मया तथा भणितम् । पिताऽऽख्यत्रे दुर्मते ! ' अग्रे पुनरेवं मा भाषिष्ठाः, कार्यश्चेत्कर्णान्तिके गुप्ततयैव वाच्यम् ' सोऽपि तथेति प्रापद्यत । पुनरन्यदा गृहे लग्नं दहनं प्रेक्ष्य श्रेष्ठिनं द्रागानेतुं पुत्रं प्रैपीत्-स दु/श्च तत्रागत्य बहूँलोकानालोक्य दूरादेव मन्दं मन्दं निगदितुमारेभे । कियकालानन्तरं तत्र स्थितं तमवेक्ष्य पित्रा भणितः-अरे ! किमस्ति ? यदेवं मन्दं मन्दजल्पसि ? समीपमागत्य कार्य बेहि , तदा स तत्वार्थमागत्य कणे व्याहृतवान्-पितः! गृहं दह्यते तूर्ण गच्छेति श्रुत्वा स आख्यत्-रे की दृङ् मूर्योऽसि, यदेवाऽऽगास्तदैवैतत्कथं नो जगदिथ ? ईदृशे कार्ये त्वदन्यः को विलम्बयेत ? इदानीं गत्वापि किं करिष्यामीयता कालेन तु सदनं भस्मीभूतं स्यात् । इत्थं पित्रोपालब्धः स जगौ-सति कार्ये लोकसमक्षं मन्दं मन्दं त्वया वाच्यमिति शिक्षा में ददिथ, तर्हि किमिदानीमेवमुपालभसे ?, नास्ति में लेशतोऽपि दोषः किन्तु तवेव । तदा कुपितः पिता प्राह-दुर्मते ! • यदेव धूम उद्गच्छेत्तदेव तस्मिन् धूलिः क्षेपणीया. तथाकरणे मनागपि विलम्बो नो विधेयः, येन तत्कालमेवाग्निः शाम्येत् ।' इति पितः शिक्षणं सोऽपि प्रतिपेदे । एकदा शीतत्तों प्रभाते पिता दन्तधावनं कुर्वन्मुखं व्याददे । तदा तदास्यानिर्गच्छन्तं धूममवलोक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org