________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(ह)
निवारिते नटीवारणन्तु जातमेव । यदस्मत्सम्प्रदाये नटादपि नटीनर्त्तनादिविलोकनं साधूनां महापापकरमस्तीति गुरुवाक्यमाकर्ण्य सोडवक्-भगवन् ! पुरैवं नाऽवेदिषम्, साम्प्रतमेवाऽबोधिषं भवत्कथनात्, पुनरग्रे कदापि तन्न प्रेक्षिष्ये । अत्र ऋजुत्वात्सत्यमवादीत्, मौर्याच्च नटप्रतिषेधान्नटीप्रतिषेधं नो बुबोध |
२ जडत्वे दृष्टान्तौ तत्राऽयं प्रथमः --
"
अन्तिमतीर्थकृत्तीर्थे केचित्साधवो बहिर्भूमिं गतवन्तः, ततः परावृत्ता मार्गे जायमानं नटनर्त्तनं विलोक्य चिरेण स्वस्थानमाजग्मुः । तदा तान पृच्छत्सूरिः - भोः ! इयती वेला वः कथमभृत् ? तैरूचेस्वामिन् ! स्थण्डिले सर्वस्यैव कालो लगति, तत्रैवं नः किं परीपृच्छयसे ? इत्थं वक्रत्वात्ते जल्पितवन्तः । पुनः पुनः सूरिणा पृष्टे तेऽजल्पन्-भगवन् ! मार्गे नटीयं नृत्यं विलोकयन्तो वयमियन्तङ्कालं स्थितवन्तः । इति तथ्यां तदुक्तं श्रुत्वा गुरुः शिशिक्षे- भोः ! साधुभिर्देव विलोक्यते तत्, सावद्यत्वात् भवद्भिरद्य कुत्सितं तत्प्रेक्षणमकारि, अतस्तदपनोदाय मिथ्यादुष्कृतमादेयम्, ततस्ते ददुः । पुनरेकदा स्थण्डिलान्निवृत्ताः पथि प्रारब्धं नट्या नर्त्तनं विलोक्य तएव साधवश्चिरादुपाश्रयमागमन् । पुनरेव गुरुणा तत्कारणे पृष्टे च वक्रतयाऽन्यदेव तत्कारणं बभाषिरे, सत्यं नैव जगदुः । अत्याग्रहात्पौनःपुन्येन पृच्छति गुरौ - वयमद्य नटीनर्त्तनदर्शनेन कृतभूरिविलम्बा अभूमेति सत्यमूचिरे । गुरुरुवाच भोः ! मयैतत्प्रागेव न्यवारि, तत्कथभद्राक्षुः ?, तदा ते गुरुमब्रुवन् - यद्येवमस्ति, तर्हि प्रथममेव नटविलोकनं निषेधन् नटीमपि कथं तत्र भवान् नो निवारितवान्, अतोऽस्माकं कोऽत्र दोषः १, इति वक्रत्वाद् गुरुमेवोपालब्धवन्तस्ते । इति प्रथमो दृष्टान्तः ।
द्वितीयो यथा -- कस्याञ्चित्पुर्यां निवसतः श्रेष्ठिनः पुत्रो महादुर्मेधा आसीत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org