________________
(८)
पीठिकासहितं प्रथमं व्याख्यानम् । उज्जुजडा पुरिमा खलु, नडाइमायाउ हुंति नायव्वा । वकजडा पुण चरिमा, उज्जुपण्णा मज्झिमा भणिया ॥ २॥" श्रीऋषभतीर्थकृतस्तीर्थवासिनः साधवः ऋजवः-सरलाः, जडाः-- मातिविकला जायन्ते । अत एते धनं सुखेन ज्ञातुं नो शक्नुवन्ति । चरमतीर्थकृच्छाप्तनवर्तिनां साधूनान्तु धर्मस्थानुपालनं न सुकरं वक्रजडत्वात् । ये चान्येऽजितादयस्तीर्थकृतस्तदीयतावासिनस्तु धर्ममववोद्धमनुपालयितुश्च शक्नुवन्त्येव, यस्मादेते ऋजवः प्राज्ञाश्च भवन्ति अतएवाऽपप्रथञ्च साधूनां परस्परमाचारभेदः । ४ ऋजुजडत्वे दृष्टान्तः
श्रीऋषभतीर्थे कस्यचिदेकस्य सूरेरन्तेवाली स्थण्डिलमगमत् । तदनु चिरादागतमेनं गुरुरप्राक्षीत्-भोः ! इयान विलम्बः कथमकारि', सोऽवक्-भगवन् ! बहिर्भूमेः परावर्शमानः पथि जायमानामदभुतां नाटकी लीलामवलोकितुं तस्थिवान् , अतो से विलम्बोऽभूत् । इति यथाजातमेव कारणं स जल्पितवान् , सरलाशयत्वात् । तदा गुरुयगादीत्-वत्स ! पुनरेवं कुत्रापि नाटकादिकौतुकाऽवलोकनाय न स्थातव्यम् , यतः साधूनां तदवलोकने महत्पापं लगति । विनीतत्वात्सोऽपि गुरुणोक्तं तथ्यं पथ्यञ्चेति मत्वा यथावदङ्गीचकिवान् । पुनरन्यदा स एव शिष्यो बहि मितो निवर्तमानः कचिदेकत्र नृत्यन्ती नटी प्रेक्ष्य चिरेण गुर्वन्तिकमागात् । पुनस्तमपृच्छच्चिरादा मनकारणं सूरिः। तदोवाच सः-स्वामिन् ! अद्य भूयान्नरनारीगण एकत्र नट्या चतुरया विहितं नृत्यं पश्यन्नासीत् । अहमपि तवलो लामिय-तं कालं तत्रा:तिष्ठम् । तदाऽभ्यधायि गुरुणा-साधो ! पुरैकदा वामेतद्विलोकनंन्यषेधिषम्, तर्हि पुनरद्य कथं तदवालोकिष्टाः ?, पुनराबक्शौ शिष्यःस्वामिन् ! प्राक् त्वं नटनर्त्तनविलोकनं प्रत्यषेधीः, नटीविलोकनन्तु न न्यवारयथाः । तदा मूर्योऽयमिति मत्वा सूरिरवोचत-अरे ! नटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org