________________
श्रीकल्पसूत्रार्थप्रबोधिनी. " पित्रालये सतत्वासविधायिनी स्त्री,
तिष्ठन् पुभानपि चिरं श्वशुरस्य गेहे । एकत्रसुस्थिरनिवासकरोऽपि साधु__ रेते भवन्ति नियतं बहुदोषपोषाः ॥" मध्यमजिनयतीनान्तु मासकल्पमर्यादा नियता नास्ति । यदेते सरला दोषज्ञाः प्रज्ञावन्तश्च जायन्ते, अतएवाऽसति दोषे सम्भवति च लाभे देशोनपूर्वकोटिवषपर्यन्तमेकत्रैव क्षेत्रे स्थाने वा तिष्ठन्ति, दोषसम्भावनायान्तु मासमध्ये ऽपि विहरन्ति ९ ।
पर्युषणाकल्पः-नयत्येनैकत्रस्थितिः । साचोत्सर्गतः प्रौष्ठपदीयशुक्लपञ्चमीतः कार्तिकपूर्णमासी, वा कालिकाचार्यप्रवर्तितचतुर्थ्याः कार्तिक शुक्लचतुर्दशी यावत्सततिदिनप्रमाणा । अस्ति चैषा जिनकल्पि. कानामहेतुकी। अपबादतश्चाषाढशुक्ल चतुर्दशीतः कार्तिकसितचतुर्दशी यावच्चतुर्मासात्मिका, आयन्तोषितनासद्वयन पाण्मासिकी वा। वर्तते चैषा स्थविरकल्पिनामेव । अत्र लालम्बननिरालम्बनगृहिज्ञाताऽज्ञातत्वादिविवरणं ग्रन्थान्तरादवगन्तव्यम् । दशैते कल्पा आदिमान्तिमजिनतैर्थिकानामेव नियताः, द्वाविंशतिजिनतीर्थे तु आचैलक्यौद्देशिकप्रतिक्रमणराजपिण्डमासकल्पपर्युषणेति षडनियताः कल्पाः, शेषास्तु शय्यातर-चतुर्बत-पुरुषज्येष्ठ-कृतिकर्मेति चत्वारः कल्पा नियता एव १० । ३ ऋजुजडत्वादिविभाग:___ ननु सर्वे साधवः सदृशा एवं सन्ति, साधयितव्योऽपि समेषामेक एव मोक्षो दृश्यते, तर्हि परस्परमभीपामाचारभेदः कथमजायत ?, तत्राऽऽह-जीववैचित्र्याद् । एतदेव विवृणोति" पुरिमाणं दुव्विसोझो, चरिमाणं दुरणुपालओ कप्पो। मज्झिमगाणं जिणाणं, सुविसुज्झो सुहणुपालो अ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org