________________
( ६ )
पीठिकासहितं प्रथमं व्याख्यानम् ।
द्रुतमेव स्वशास्त्रे परशात्रे च निपुणा जायन्ते अतो दीक्षादिनादेव ज्येष्ट लघु लभन्ते । अथ पितामादुहितृनृपामात्यश्रेष्ठिरणिगादयः सहैव दीक्षामुररीचक्रुश्चेदमीषामुपस्थापने को विधिः ? उच्यतेयदि पित्रादयः पुत्रादयश्च युगपदेव पड्जीवनिकायाऽध्ययनेन योगोदहनसमर्था जायेरनुक्रमेणैवोपस्थापना । चेदमीयां किञ्चिदेवान्तरं तर्हि कियन्तङ्कालं प्रतीक्षापि पूर्व पित्रादेरेवोपस्थापना श्रेयसी, नोचेपुत्रादेराधिक्यात् पित्रादेर्मनांसि खियेरन् । अथ पुत्रादीनां प्राज्ञत्वादिना पित्रादेश्च तद्वैपरीत्येन महदेवान्तरमुपलभ्येत तदा स पित्रादिरेवं प्रतिबोधनीयः - भो महाभाग ! तावकोऽयं पुत्रो ज्ञानवानस्ति, निरतिचारं चारित्रञ्च पालयति, परमितरेभ्यो बहुभ्यो पि लघीयान् भविष्यति, उपस्थापनाऽभावात् । खल्वमुष्मिञ्ज्येष्ठे तवैव गौरवं प्रथिष्यते । एवं प्रतिबोधितः स वुध्येत तर्हि प्रथमं पुत्रादिरुपस्थापनीयो नान्यथा ७ ।
प्रतिक्रमणम् - आवश्यकानुष्ठेय क्रियाविशेषे रूढिमत् । तच्चातिचारे लग्नेऽलग्ने वा प्रातः सावञ्च पाक्षिकं चातुर्मासिकं सांवत्सरिकञ्च पञ्चधात्मकं प्रथमान्तिमसाधवो वैवत्येन कुर्वन्ति, शेपजिनपतिश्रमणास्तु सत्येव दोषे दैवसिकं नैशिकं वा प्रतिक्रमणमाचरन्ति न तु पाक्षिक- चातुर्मासिक- वार्षिकाणि ८ |
"
"
मासकल्पः - आदिमचरमती कृत्साधूनां मासकल्पव्यवस्था नियता । चेदमीषामङ्गेषु रोगा उत्पयेरन्, वि वा न शक्नुयुः, भिक्षां वा नो प्राप्नुयुस्तदापि शाखापुर - पाटकको गकादिपरावर्त्तनेनापितां सत्यापयेयुरेव । चतुर्मासीं विहाय मासादधिकमेकत्र नैव तिष्ठेयुः, नोल्लघुत्वादिका महादोपा जायेरन्, न वा लोकानुपकुर्वीरन, ज्ञानं वा नाऽऽराधयेयुः, नाधिगच्छेयुदैशिकं वैदेशिकं वा ज्ञानम् । उक्तञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org