SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रार्थप्रबोधिनी. ( ५ ) कामिनी वा रूपलावण्य परिपूर्णतारुण्यवती मालोक्य सरागो जायेत, इत्याद्यनेकदोषोद्भावात् । ये च द्वाविंशतिजिनशासने वर्त्तन्ते ते ऋजुप्राज्ञतथा राजकीयमदूषितमाहारादिकं लान्त्येव दोषप्रेक्षायान्तु तेषामपि मे ४ | कृतिक—चन्दनलक्षणम् । एतच्च द्विविधम्-एकमभ्युत्थानलक्षणं, द्वितीयञ्च द्वादशावर्तरूपम् । सर्वेष्वपि तीर्थकृत्तर्थेिषु सकलैः साधुभिर्यथादीक्षं परस्परं तद्विधीयते । धर्मे हि पुंसामेव प्राधान्यमिति हेतोः साध्वीभिः शतवर्षप्राग्दीक्षिताभिरपि तत्काल दीक्षितोऽपि साधु रेव वन्दनीय इति सकलजिनसाधूनां सम्प्रदायो वर्त्तते ५ । 1 व्रतानि -प्राणातिपातनृपावादाऽदचादानमैथुनपरिग्रहलक्षणानि पञ्चमहानतानि । तत्राऽऽदि मान्तिमतीर्थ कृच्छासने ये श्रमणा वर्त्तन्ते तेषां तादृशधीविरहात्पञ्चापि महाव्रतान्येव भवन्ति । ये पुनर्द्वा - विंशतिजिनान्ते सदस्ते खलु चत्वार्येव तानि मन्यन्ते । यतस्ते जानन्त्येवम् - यः कामिन्यः परिगृहीतास्ता एवोपभुज्यन्ते, वैपरीत्ये तु न, इति कामिन्योऽपि परिग्रहान्तर्गता एव बभूवुः । अतः परित्यक्ते परिग्रहे स्त्रीणां परित्यागः सुतरामायात एव । एवमादिमान्तिमतीर्थकृतोस्तीर्थे नैशिकाऽशनत्रतं मूलगुणे परिगण्यते, ततश्च रात्रिभोजनत्यागो व्रतत्वेन गण्येत चेत्साधूनां षड्वतानि स्युः । द्वाविंशतिजिनतीर्थे श्रमणानान्तु रात्रिभोजनव्रतस्पोत्तरगुणरूपतया चत्वार्येव व्रतानि ६ । ज्येष्ठः - श्री ऋषभदेव महावीरस्वामिनोरनुसारिणः साधवो हत्या दीक्षचैव ज्येष्ठत्वेन गणयन्ति, अतएव येन वृहद्दीक्षा प्रागग्राहि सएव ज्येष्ठः, यस्य तु लघुदीक्षा प्रावभूदपि वृहद्दीक्षा पश्चादजायत स पूर्वापेक्षया ज्यायान्मूत्रापि लघुरेव । द्वाविंशतिजिनपतिसाधूनां त्वेषापद्धतिर्नास्ति, ते खलु व्यावहारिकनैपुण्यशालितया बुद्धेरमान्यतया च Jain Education International For Private & Personal Use Only म. www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy