________________
(8)
पीठिकासहितं प्रथमं व्याख्यानम् ।
गमयन्ति प्रचान्यत्रैव प्रतिक्रामन्ति तदा प्रथमोपाश्रयदाता शय्यातरो न भवति यदि तत्रैव शयीरन्, प्राभातिक प्रतिक्रमणञ्चान्यत्रैव कुर्वरिन्, तदोभावपि शय्यातरी जज्ञाते । तथा सति तयोरुभयोरप्यशन-पान खादिप-स्वादिम-वस्त्र- पात्र - कम्बल - रजोहरण - सूची- पिपलेक-नख-कर्णशोधन - रूपं द्वादशविधवस्त्वनादेयमेव सर्वतीर्थकृच्छासनेषु सासानीनाम् । परं सत्यपि प्रयोजने तृण - डगल-भस्म मल्लक- पीटफलक--- श्रय्या - संस्तारक - लेपवस्तुनि साधवः सोपधयः शिष्याश्च लातुमर्हन्ति । यदि साधवः शय्यातरपिण्डमाददीरंस्तर्हि आहारादि प्रदानशङ्कया केचिदप्युपाश्रयं नो निर्मिमीरन् स्थानं वा साधुभ्यो तो ददीरन्, ततश्चाहारादिदौर्लभ्यमपि संभवेत् साधूनाम् । किञ्च पार्श्ववर्त्तिनः शय्यातरस्य सद्मन्येव सरसाहारादिप्राचुर्यलाभे गृहान्तरगमनाभावात्साधवोऽलसा अपि भवेयुः, रागातिरेकाद्वा पुनः पुनचेद् गच्छेयुः, श्राद्धोऽपि दधिसीरादिस्निग्धमेभ्यो ददीत तर्हि तद्गृहं रसगृध्नुः स जातुविनैव जह्यात् । ग्रामान्तरं गता अपि ते भटित्येव मिष्टान्नलोपसत्रैव पुनरागच्छेयुः । अपि च मार्गिते वस्त्रादौ तत्कालमेव श्रद्धालयः श्राद्धा वितरेयुश्रेदुपधयोऽपि परिवर्धेरन् इत्याद्यनेकदोपसम्भवाद वसतिप्रदातुः सदनादाहारादेरादानं समस्तसाधुसाध्वीनां न्यषेधिरेव सकलातीतः ३ ।
g
Jain Education International
"
-
-:
राजरिण्ड: एः खलु सेनानी पुरोधा महेभ्याऽमात्य - सार्थवाहलचणैः पञ्चभिः सह पृथ्वीं शास्ति, यक्ष विधिवदभ्यषिच्यत सोऽयं राजोच्यते । तस्य पिण्डश्चतुर्विधाहारः वस्त्रं पात्रं, कम्बलं, रजोहरणमित्यष्टविधः प्रथमचरमजिनवतीय साधुभ्यः साध्वीभ्यक्ष नैव कल्पते । यतो राजद्वारे भूयांसो राजपुरुषाः सन्तोऽसन्तश्च यान्त्या - यान्ति च ये च वास्ते साधून् विलोक्यापशकुनं मन्यमानास्तान् निन्देयुश्चौरं वा वदेदुः । साधुर्वा तत्र रथतुरगगजादिदिव्यं वाहनं १ पात्रादिवेषको लोहनयतीक्ष्ण्मुखकीलकः 'स्थारणी' इतिभापाप्रसिद्धः । लघुचुरो वा ।
1
For Private & Personal Use Only
www.jainelibrary.org