________________
श्रीकल्पसूत्रार्थप्रबोधिनी.
(३) तन्मानञ्चेत्थमभ्यधायि-कटिदेशमारभ्य जानुपर्यन्तमावरणकारि सार्द्धत्रिहस्तप्रमाणं चोलपट्टम् . सार्धचतुर्हस्तमानमुत्तरीयवस्त्रश्च धार्यम् , तथा स्वीयषोडशाङ्गुलप्रमाणा मुखरस्त्रिका धर्मव्या । एवं शरीरार्धन. द्घाटितमर्धश्चाऽऽवृतं यथा भवेत्तथा साधुभिः श्वेतं मानोपेतं जीर्णप्रायं वसनं धरणीयमेव । इत्थं येन मुनिना वसनं ध्रियते सोऽप्यचैल एव निगद्यते । एतच्च दृष्टान्तेनापि द्रढयन्नाह-कश्चित्यरिहितवासा अपि तन्तुवायं ब्रूते--भोः ! तूर्णं धोतवस्त्रं निर्माय देहि यदहमधुना निर्वासा अस्मि । अथवा कश्चिदेकः पुमान् धोतभुत्तार्याऽन्य जीर्णं तत्परिधाय नदीमुदतरत् । अग्रे नदी तितरीषुः कोऽपि पान्थस्तमपृच्छत्भ्रातः ! नदी कथमुत्तेरिथ ?, स प्राह-मया तु निर्वसनीभूय सोत्तीर्णा। अथवा कश्चन पुमान् परिहितवसनोऽपि स्थतिकारं रजकं वा जल्पतिआशु मे वस्त्रं देहि, यस्मादहमिदानी नग्नोऽस्मि । इति दृष्टान्तत्रयेण सत्यपि वसने यथा तस्य वस्त्रराहित्यं तथा मुनीनामपि श्वेतमानोपेतजीर्णप्रायवसनधारणेऽपि निर्वसनत्वमभूदेव । मध्यमतीर्थकृतां साधवस्तु चतुराः प्रज्ञावन्तश्च जायन्ते, अतस्ते महाहँ पञ्चवर्णात्मक वसनं धरन्ति, तन्मानं नाऽपेक्षन्ते, अतस्तेषु सचैलत्वमेव, अनियतञ्चाऽचैलवम् १।
औद्देशिकः-उद्देशेन यत् क्रियते तदौदेशिकम्-आधार्मिकम् । यस्य साधोः साध्व्या वोदेशेन खायं पेयं वस्त्रपात्रादि क्रियेत तत्तनैवाऽग्राह्यम् , इतरसाधुसाध्वीनान्तु तस्कल्प्यमेवेति द्वाविंशतिजिनशासनकालीना परिपाटी । प्रथभान्तिमतीर्थकृच्छात्राने तु-एक साधु साध्वी वा समुदायमुद्दिश्य गृहमेधिना यदशनपान नमानोपज्यादि क्रियते तत्कस्मा अपि साधवे कस्या अपि साध्य वा नैव कल्पो २ ।।
शय्यातरः--उपाश्रयदाता, अथवा यः साधो साध्व्यै वा स्थातुं वसतिमर्पयति स शय्यातरः कथ्यते । यदि च साधवः सापश्च सकलां रजनी जाग्रात क्षणमपि न खपनि, खाध्यायादिनः रात्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org