________________
(२)
पीठिकासहितं प्रथमं व्याख्यानम । रात्रौ जागरणादिमहामहं विधाय प्रभाते च प्रागुक्तविधिना सङ्घीभूतः श्रीसङ्घो महोत्सवं वितन्वानः पौषधशालायामुपाश्रये वा प्रत्याहिकसामायिकोपयोगिपवित्रे नियतीकृते तोरणबन्धनादिना सुशोभिते सदने समानीय श्रद्धया परया भवत्या सकलामाशातनां यत्नतः परिहरन्तः कस्यचित्लुशीलस्य विनयिनः प्राज्ञस्य श्रावकस्य पाणौ किलैतत्पुस्तकं निधाय दत्तमनसः सर्वे तन्नुखाच्छृणुयुः, श्रवणकाले च निद्राप्रमादविकत्यनादिकं त्यक्तव्यम् । संस्कृतटीकामयमेतत्कल्पसूत्रं वाचयितुं कृतयोगानुष्टान एव मुनिरही ते नेतरः, श्रावकोऽप्येकाशनादितपोविधाता नियमतः सामायिकाद्यनुष्ठाता कृतोपधानः सन् वालबोधभाषामयमेवैतकल्पसूत्रं वाचयितुमर्हति । असत्यखिलनियमसाधने केवलं सचित्ताहारादिसावद्यकर्मनुक्तोऽप्येतच्छावयितुं शक्नोति वा । २ अथ दशधा साध्याचार:---
श्रीगुरुवरस्याऽऽदेशेन यस्मिन् क्षेत्रे चतुर्मास्यां साधुस्तिष्ठेत् , तस्मिन् क्षेत्रे नमस्ये मालि पारम्पदिायाते पर्युपणसुपर्वणि माङ्गल्याय पञ्चाहं यावत्सल्यसूत्रमच्यावयेत् साधुः । अत्र कल्पशब्देन साध्वाचारस्तं सूत्रपति संचयतीति व्युत्पत्त्या साध्वाचारपरः कल्पः । स च साधूनां दशधा वर्लने ! तथादि.---
आचेलुक्कुनिय-सिन्नायर--रायपिंड-किइकम्मे । वय-जिट्ठ-पडिक्रमणे, मातं-पजोसणा-कप्पे ॥ १ ॥
आचैलक्यसनास्ति चैलं बसनं यस्य सोऽचैलकस्तस्रा भाव आचैलक्यम्-वस्त्रराहित्यम् । इदमत्र तात्पर्यम-नह्येतावता निर्वसनैर्भाव्यम् । किन्तु, श्रीऋषभवीरजिनशासने तस्थुषामिदानीन्तनानां श्रमणानां श्रमणीनाञ्च श्वेतं मानोपेतं जीर्णप्रायं तद्धर्त्तव्यमेवे ।
१ शास्त्रे खलु श्रीवीरानुयायिनां श्रमणानां श्रमणीनान यथा पात्ररञ्जनमनुशास्ति, तथा वस्त्ररञ्जनं कुत्रापि नानुशशास । अतएव वस्त्ररञ्जनं निपिगमेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org