________________
पीठिकासहितं मं व्याख्यानम् ।
(३७) गतैर्यवैविद्याकीर्तिः श्रीः शुक्लपक्षीया जनिश्च लक्ष्यन्ते । यस्य लोचने रक्ते भवतः त कामिनीजनवल्लभो भवति, यश्च कनकपिङ्गलाक्षः स सदा धनी तिष्ठति. भुजयोध्ये किलैश्वर्यवान् भवति । यस्य शरीरं मांसलं स सुखमनुभवति । यस्य नेत्रे स्निग्धे स सौभाग्यमुपैति । दन्तस्नेही भोजनं, वपुःस्नेही च सुखी स्यात् । नखानां लौहित्ये सधनत्व. मौज्ज्वल्ये च भिक्षुको भवति । येषां कररुहा रूक्षास्तेऽनाचारिणो भवन्ति । यस्य वक्षो विशालं स धनधान्यभोक्ता, दीर्घशिरा नृपपुङ्गवो जायते । विस्तीर्णकटिको नरो बहुपुत्रकलत्रवान् भवति, विशालपाच सदैव सुखमाप्नोति । व्यञ्जनानि-मषतिलादीनि पुंसां दक्षिणे स्त्रीणां वामे च शुभानि भवन्ति । ___मानोन्मानोपेतम्-पुरुषप्रमाणे जलभृते यत्र कुण्डादौ पञ्चविंशतिवर्षीये पुंसि प्रविष्टे तजलं द्रोणमानं निर्गच्छति तर्हि स मानोपेतो ज्ञायते । तुलायामधिरोपितस्य पुंसोऽर्धभारं मानश्चेत्स उन्मानोपेतो ज्ञेयः । प्रसङ्गाद् भारमानं दर्शयितुमाह-षड्भिः सर्षपैरेको यवः, त्रिभिश्च यवैरेका गुञ्जा, ताभिस्तिसृभिर्वल्लः, षोडशभिश्च वल्लैरेको गद्याणकः, दशभिरेतैः पलः, पलानां सार्धशतेन मणो भवति । मणैश्च दशभिडिका, दशभिर्धडिकाभिर्भार उच्यते । तथा च भारे चत्वारिंशत्सेटकमानेन पादोना अष्टमणाः किश्चिदधिकाः । तदर्धन्तु पञ्चसेटकाधिकपादोनचतुर्मणप्रमाणशरीरम् । निजामुल्याऽष्टोत्तरशताङ्गुलो ना खलूत्तमः, षण्णवत्यङ्गलो मध्यमः, चतुरशीत्यङ्गुलस्तु जघन्यः, तीर्थङ्करस्तु द्वादशाङ्गुलोष्णीषगणनया विंशत्यधिकशताङ्गुलोचो भवति । इत्थं सर्वागसुन्दरं शशधरमिवाऽभिरामं देवकुमारसमं पुत्रं जनयिष्यति । स दारको यदाष्टवर्षीयान् भविष्यति, तदा ऋग्यजुःसामाऽथर्वेति चतुर्वेदानां पञ्चमेतिहासानां निघण्टु-संग्रहलक्षणमिति षण्णां साङ्गोपाङ्गानां पारगामी भविता । तत्राङ्गानि-शिक्षा १, कल्पः २, व्याकरणम् ३, छन्दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org