________________
(३५६)
श्रीकल्पसूत्रार्थप्रबोधिनी. चेच्चुल्लिकातो रक्षापसारण-गृहमार्जन-जलाहरणादिकृत्यं विधाय वहिं प्रज्वाल्य सरसं सव्यञ्जनं भक्तादिपक्त्वा मामाकारय तदा ते परिविष्य भोक्तुं दास्यामि । ततस्तया किङ्करीकृतः सर्वं सम्पादयितुं लग्नः । प्रत्याहिकं भस्मापसारणात्तदङ्गुलीषु श्वैत्योत्पत्तेस्तं ' श्वेताङ्गुलि' इति नाम्ना लोका समाह्वातुं लग्नाः । देवदत्त ! त्वमप्येवमेव स्त्रिया दासी. कृतश्चेन्नाहं किमपि याचानि । " एकं कुलपुत्रं स्त्रीवशम्बदं खट्वाऽऽरूढेव जलाहारणादिगृहकार्य सकलं तेन कारयित्वा प्रत्यहमपाक्षीत् । सोऽपि लोकलज्जया प्रत्यहं निशि पश्चिमयाम एवोत्थाय तटाकतो जलं लातुमलगत् । तद्भीत्या बकादि पक्षिणोऽकाल एव कूजन्तः समुडयितुमारेभिरे । ततो लोका 'अकाले कथमेतेषां बकादीनां कोलाहलः श्रूयते ?' इति गवेषयन्तः कुलपुत्रस्य स्त्रीजितस्य तत्कालिकजलानयनार्थतटाकगमनमवगत्य 'वकोड्डायी' इति तन्नाम धृतवन्तः। ” “ एवं तृतीयः कश्चित्कुलपुत्रः स्त्रीनिर्जितः प्रत्यहं प्रातरुत्थाय कृताञ्जलिस्तां पृच्छति स्म-प्रेयसि ! किमादिशसि ?, साऽजल्पत्-प्रथमं गृहमार्जनादिकं कृत्वा जलादिकमानीय भोजनं पच्यताम् । सोऽपि तत्सर्वं कृत्वा पुनरूचे-मया त्वदुक्तं सर्वमकारि, अन्यदादिश्यताम् । सोवाच-भोजनस्थले गादिकां पाटलञ्च निधाय मामितः करमाहं नीत्वा तत्राऽऽसने समुपावेश्य, भोजनञ्च परिविष्य यावदश्नामि तावन्मक्षिकापसरणं विधेहि । तदपि कृत्वा पुनरपृच्छत्-अथ किङ्करणीयम् ? । साऽवदत्मलमूत्रयोः क्षेपः क्रियताम् । तदपि कृत्वोवाच-अये किमादिशसि ? । साऽवक्-अहं शये, त्वन्मे चरणौ चम्पय । एवमकार्यमपि कुर्वतस्तस्य 'पत्नीदास' इति नाम लोका दधिरे ।" " एवं कश्चित्कुलपुत्रः स्त्रिया दासीकृतस्तस्या परिधानीयादिकं नित्यं क्षालयस्तीर्थस्नाता नाम्ना लोके प्रथितोऽभवत् ।” ईडगेव कश्चिद्वनितया दासीकृतः कुलपुत्रो 'गद्धापरखी' नाम्ना लोके पप्रथे। एवमेव कोऽपि कुलपुत्रः स्त्रीवश्यो
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only