________________
नवमं व्याख्यानम् ।
(३५५) मानोपरि सेवइयामुनिकथा
(२) कोशलदेशे गिरिपुष्पनगरे सेवपर्वणि बहवस्तरुणमुनयः सममिलन् । तेष्वेकः प्रोचे-अद्य सेवपर्वदिने तल्लब्धौ किं चित्रम् ?, यो हि प्रभाते घृतशर्कराभ्यां सह सेवं लात्वा सर्वान् भोजयेत, स एव लब्धि. मानुच्येत । अभिमानादेको मुनिर्जगौ-श्वः कुतश्चित्सदनात्सेवमानीय सर्वान् भोजयेयं तद्देव मन्नाम सत्यं ज्ञातव्यम् । प्रातःकाले च विशाल पात्राणि झोलिकान्तः क्षिप्वा गोचर्यं चचाल । कस्यचिच्छोष्ठिनः सद्मनि तल्लाभं विदित्वा तद्भार्यामयाचत-सेवं मे देहि । सा जगाद-रे ! दूरमपसर, इयता परिश्रमेण निष्पादितं सेवं तुभ्यं का दद्यात् ?, नैव दास्यामि । साधुनोक्तम्-रण्डे ! अवश्यमद्य त्वयि पश्यन्त्यामेव सेवमादद्याञ्चेदहं सत्यसाधुर्वेदनीयः। सोवाच-यावन्मे स्थास्यति नाशिका तावत्कथमपि सेवं ग्रहीतुं नैव शक्ष्यसि । चेदद्य मद्गृहात्सेवं भवान् गृह्णीत, तर्हि मे नाशिका छिन्नैव ज्ञातव्या । ततस्तत्सदनान्निर्गत्य कमपि पप्रच्छ-कस्येदं सदनं, तत्स्वामी च कुत्र तिष्ठति ? । तेनोक्तमएतद् गृहपतिर्देवदत्तोऽस्ति, सोऽधुना पञ्चगोष्ठ्यां निषण्णोऽस्ति । साधुस्तत्र गत्वा जगाद-अस्यां गोष्ठ्यां देवदत्तनामा कोऽस्ति ?, देवदत्तोऽवक्-किं प्रयोजनमस्ति ?, शिष्योऽवदत्-किमपि याचितुं कामये । कश्चिदाख्यत्-स तु महाकृपणो वर्तते, कस्यापि किमपि न ददाति, तं याचित्वापि समीहितं नैव साधयिष्यसि । चेत्कमपि पञ्चं याचस्व, स ते समीहितं ददितुमर्हति । देवदत्तोऽवदत्-एतेषामुपहासं मा औषीः, यदर्थयितुं कामयसे, तदर्थय दास्याम्यहम् । साधुरगदत्-वडिव चे. स्त्रीजितो नाऽसि, तर्हि त्वां याचेय । पञ्चा अजल्पन्-तेषां षण्णां स्त्रीजितानां कथा आचक्ष्व । साधुरजल्पत्-शृण्वन्तु सर्वे । 'कश्चित्कुलपुत्र एकां सुरूपां कन्यामुद्राह्य तां गृहमानीय तस्या वश्यो बभूव । प्रभाते क्षुधातुरस्तां भोजनं ययाचे । सा मञ्चस्थैव तमवदत्-बुभुक्षसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org