________________
(३५४)
श्रीकल्पसूत्रार्थप्रबोधिनी. ८ अर्हन्नको मुनिर्विहरमाणः क्वचित्स्थले वहन्तं खालमालोक्य 'यदेनं पादन्यासेन तरामि, तप्कायजीवविराधना स्यादत उत्प्लुत्य गच्छानि चेदरम् ' इति निश्चित्योत्पुप्लुवे । परमाज्ञाभञ्जकत्वाच्छासनदेवता तदंघी चिच्छेद । तेन सोऽधिकं दुःखमनुभवितुं लग्नः । देवतो. वाच-स्वमिदानीमहतामाज्ञामभाङ्क्षीः, ईदृशस्थलेऽप्कायजीवविराधनासाधो व लगति, तदमत्वा दुःखमन्वभूः । पुनरेवं त्वया नैव कार्यम्, इति कायगुप्तावर्हन्नककथा । ___क्रोधादिचतुष्कं कषायः, एते स्वपरसन्तापकाः, संसारविवर्धकाः, तपोजपसंयमादिधर्मघातकाः, दुर्गतिदायकाः, मोक्षमार्गरोधकाश्च भवन्ति। अत इमे गृहिभिः सहाऽऽहारादिव्यवहारवेलायां साधुभिः साध्वीभिश्चाऽवश्य हातव्यः । एषां विशेषस्वरूपं दृष्टान्तेन ज्ञातव्यम् । क्रोधोपरि मासोपवासी साधुकथा
(१) हस्तिकल्पनगर्यामेकः साधुः कृतमासक्षपणः पारणार्थमाहारकृते कस्यचिद्विप्रस्य मृतस्य जेमनवारस्थलमागत्य तस्थौ । सर्वे विप्राः घृतपूरकमभुञ्जत, तस्मै साधवे कोऽपि किञ्चिदपि नो ददिवान् । सकोपः साधुरुवाच-अस्मिञ्जमनवारे मह्यं भवद्भिर्नाऽदायि चेदग्रे पुनरीहशे भविष्यति भोज्येऽवश्यं मे देयम् । पुनरपि कोऽपि ममार, तन्निमित्तजेमनेऽपि स मुनिर्द्वितीयपारणार्थमागमत्, प्राग्वच्चिरं तस्थौ, परं कोऽपि न किञ्चिद्ददौ । तदापि कोपाजगौ-पुनर्भविष्यति तृतीयमीदृशमेव जेमनं तत्रावश्यं प्रतिलाभयितव्यम् । पुनरपि तृतीयस्मिन्मृतकजेमने प्रागिव किञ्चिदप्यलब्ध्वा चतुर्थे जेमने ददितव्यमित्युवाच । तच्च केनापि वृद्धेनाऽश्रावि, स गृहपतिमवादीत्-अस्मै साधवे पर्याप्तं भोज्यं दीयतां नो चेत्पुनः कोऽपि मरिष्यति, अयमेव मुहुर्मुहुरशपत्, तेन मृत्युर्जायते । ततस्तं यथेच्छं घृतपूरकमदात् । एवमन्येन साधुना साध्या वा क्रोधेन भक्तादिकं नैव ग्राह्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org