________________
नवमं व्याख्यानम् ।
(३५३) कश्चित्सुर उष्ट्ररूपेण भीषयामास, जगाद च रे ! गच्छेऽस्मिन्नैकोऽपि साधुरकृतमण्डलो मात्रादिकं प्रकुरुते । यो मण्डलं कृत्वा मात्रादिकं क्षेप्स्यति तस्य देवता साहाय्यं करिष्यति । इति श्रुत्वा क्षुल्लकेनापि परिक्षेपणसमितौ सावधानेनाऽभावीतिपारिष्ठापनिकसमितौ क्षुल्लकमुनिकथा।
६ कायोत्सर्गे चिरं तिष्ठन्तं कौङ्कणमुनिं गुरुरपृच्छत्-इयती वेला कथमलगत् ?, सोऽवक्-अद्य जीवदयां सुचिरमध्यायम् , अतो मे वि. लम्बो जातः। गुरुरजल्पत्-कीदृशी जीवदयाऽचिन्ति ?, सोऽभ्यधात्-क्षेत्रे शिशुरालस्यातृणायुत्कर्तनं नाऽकरोचेद्धान्यं यथावन्नोत्पत्स्यते, ततः सपरिवारः स दुःखभाग् भविष्यति । गुरुराख्यत्-ईदृशी दया तु सावद्यैव त्वयाऽध्यायि, तदर्थं मिथ्यादुष्कृतं दीयताम् , सोऽपि दत्तवाँस्त. दिति मनोगुप्तौ कौङ्कणमुनिकथा । __ ७ गुणदत्तमुनिरेकदा स्वं सांसारिक्या धनवत्या मात्रा वन्दयितुं गच्छन्मार्गे चौरेण गृहीत्वा भणितः-साधो ! याहि त्वां मुञ्चामि, परममुना मार्गेणाऽऽगच्छन्तं जन्यलोकं चौरोऽस्त्यति न वक्तव्यम् । साधुरपि तथास्त्विति जल्पित्वा स्वस्थान-मागात् । तत्र निज. कुटुम्बवर्गवन्दितः । पुनस्तेनैव पथा जन्यैः सह समायातः । तदा ते चौरास्तानशेषाल्लुण्टित्वा मिथो लपितुं लग्नाः-यदेष साधुः कीहक् सत्यवती, स्वपरिवारमपि मन्नाम नोवाच । चौरोक्तिमाकर्ण्य साधोर्माता चेखिद्यमाना साधुं भर्त्सयन्ती जगाद-रे दुर्मते! त्वमेनं जानन्नपि मां कथं नोवचिथ, त्वमेवाद्य दुर्धीत्वान्नः सर्वस्वमलुण्टयः । इत्थं तेषामाकोशेन खिद्यमानं साधुमालोक्य ते चौरा दयया सर्वेषां धनानि प्रत्यापर्यन् । ततः सर्वे चौरान् साधुश्च स्तुवन्तः प्रमुमुदिरे । तानाक्रोशतः किमपि नाऽऽलपत्साधुरिति वचनगुप्तौ गुणदत्तमुनिकथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org