________________
( ३५२)
श्रीकल्पसूत्रार्थप्रबोधिनी. ___ ३ एकदा नन्दीषेणमुनिबनस्य वैयावृत्त्यकरणं प्रतिज्ञातवान् । षष्ठं तपः कुर्वाणोऽप्यनवरतस्तमेकदा सुरनायकः सदसि सुराणां पुरतः प्रशशंस । तदसहमानः कश्चिदीर्ष्यालुरमरस्तत्रागत्याऽतीसारपरिपीडितसाधुं विकुर्व्य तं वने संस्थाप्य स्वयं रूपान्तरेण समागत्य नन्दीषेणमवादीत्-साधो ! कश्चित्साधुरतीसारपीडितोऽनाथ इव वने तिष्ठति । नंदीषणस्तदैव तदर्थं शुद्धोदकं लातुं गृहस्थसदनानि जगाम । सर्वत्र सुरो मायया जलान्यशुचीन्यकरोत् , तानि वारि सोऽग्राह्यानि नाऽऽदात्। ततस्तदन्तिकमागत्य तं ग्लानं निजस्कन्धमारोप्य चचाल । तत्रापि स तत्स्कन्धे जहदे । तथापि नन्दीषेणमविकृतमुदीक्ष्य प्रकटीभूय देवो जजल्प-नन्दीषेण ! क्षमस्व । सुरेन्द्रकृतां ते प्रशंसामसहमानोऽहं सर्वमेतदकरवम् , त्वं धन्योऽसि नान्यस्त्वमिव कोऽप्यस्तीति निगद्य स्वस्थानमगमत्सुर इत्येषणासमिती नन्दीषेणमुनिकथा।
४ कश्चिन्मुनिर्विहरमाणः सशिष्यैरेकत्र ग्रामे समायातः । तत्र वेलाऽज्ञानात्प्रागेव प्रतिलेखनमकरोत् । तदनु समयपरिज्ञाने जाते गुरुरूचे-भो ! प्रतिलेखनवेलावधुना समायाता । अतः पुनः प्रतिलेखनं क्रियताम् । गुरुवचसा सर्वे तत्का लग्नाः, केवलमेकः सोमिलो मुनिः कर्कशं वच उवाच-किमियतैव कालेन तत्र सर्पः प्राविशत् । प्रभाते प्रतिलेखनवेलायां सोमिलो देवमायया पात्रान्तः फणिनमपश्यत् । बिभ्यद् गुरुमुवाच-प्रभो ! पात्रान्तः सर्पो दृष्टः, गुरुरवदत्-कर्कशवचनस्य फलमेतदवेहि, पुनरीदृशं त्वया नैव वाच्यम् । इति निशम्य ‘अद्यारभ्य यावज्जीवमहं स्थास्यामि रत्नाधिकं प्रति कृताञ्जालः' इति गृहीताभिग्रहः सोमिलश्चारित्रं परिपाल्य बहूनि कर्माणि निर्जरयामासेति प्रतिलेखना समितौ सोमिलमुनिकथा । ____ ५ अथैकदा सुव्रताचार्यो लघुशिष्यं मण्डलकर्तुमादिशत् । स तदकुर्वन्नुवाच-किमास्ते बहिरुष्ट्रः । तदनु रात्रौ प्रस्रावं क्षेप्तुं बहिर्गतं तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org