________________
नवमं व्याख्यानम् ।
( ३५१) विना शिशोः पालनादि कर्तुं नैव शक्यते, तथैवाऽष्टप्रवचनमातरं विना चारित्रधर्ममवितुं कोऽपि नाऽर्हति । समीक्षापूर्वकं गमनमीर्यासमितिः, विविच्य हित-मित-निरवद्यभाषणं भाषासमितिः, संयमनिर्वाहार्थमदोषभिक्षाऽऽदानमेषणासमितिः, वस्तुमात्रस्य प्रतिलेखन-प्रमार्जने विधायो त्थानस्थाने, भाण्डमात्राऽऽदाननिक्षेपणसमितिः, निष्प्रयोजनीयवस्तुजातं निर्वद्यभूमौ परिक्षेपणं पारिष्ठापनिकासमितिः, मनसा पराऽनिष्टाऽ. चिन्तनं मनोगुप्तिः, पराऽनुद्वेगिवचनं वचनगुप्तिः, अप्रयोजनं कायाऽसञ्चारः कायगुप्तिः कथ्यते । चारित्रधर्ममवद्भिः साधुभिः साध्वीभिश्च प्रावृष्येतदष्टप्रवचनमाता यत्नतो रक्षणीया । अत्रैवं दृष्टान्ताः
१ अथैकदा सौधर्मेन्द्रः सदसि सकलदेवसमक्षमाचष्ट-यदधुना भरतक्षेत्रे वरदत्तमुनिवदपरःकोऽपीर्यासमितिपालको नास्ति। तदसहमानो मत्सरी कश्चित्सुरस्तत्परीक्षार्थमत्रागत्य गजरूपं विकुर्व्य करेण तमुत्थाप्य देवमायया समुत्पादितलघुलघुभेकाकुले भूतले न्यपातयत् । तदवसरे निपतन्मुनिः ' यन्मे मृत्योर्भीति स्ति, कालान्तरेऽवश्यंभाविनी मृतिरधुनैव जायताम् , परमिदानी मदङ्गयोगादेते लघुभेका मा म्रियन्ताम् ' इति धिया रजोहरणेन भूमिप्रमार्जनं कर्तुमारेभे । तद्वीक्ष्य प्रसद्य प्रत्यक्षीभूय सुरोऽजल्पत्-मुने ! क्षमस्व, क्षमस्व, त्वमिव कोऽप्यपरः संसारे जीवविराधनान्न बिभेति, अतस्त्वां नमस्यामि । इत्थं स्वमन्तुं क्षमयित्वा सुरः स्वस्थानकमयासीदितीर्यासमितौ वरदत्तमुनिकथा। ___२ अथैकत्र नगरे समतिष्ठत संगतमुनिस्तन्नगरं सर्वतोऽरुणद्वैरिबलम् । तदा बहिर्यान्तं संगतमुनिमालोक्य तेऽप्राचुः-साधो ! अन्तः कियती चमूस्तिष्ठति ? । साधुनोक्तम्-श्रूयते बह्वीति दृशा तु नाऽऽदर्शि। पुनः पुनः पृच्छतस्तानेवमेव द्वित्रिवारमाख्यन्मुनिः, अमुना कथनेन तमुन्मत्तं मत्वा जहुस्ते । इतिभाषासमिती संगतमुनिकथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org