________________
(३५०)
भीकल्पसूत्रार्थप्रबोधिनी. कदापि होलिकादिपर्वदिवसेषु बहुधाऽऽहृतोऽपि भोक्तुं नागच्छत् । तदा लोकास्तां वक्तुं लग्नाः-रे ! तवैक एव जामाता वर्त्तते, तमाकार्य कदापि नैव भोजयसे, पुत्रस्तु नैवास्ति, को जानाति त्वत्परोक्षे तवैतद्धनं को भोक्ष्यते । तत एकदा तमवादयजामातः त्वयैकाकिनैवाऽद्य भोक्तुमागन्तव्यम् । जामातरं सखायो जगदुः-अद्य ते घनं धनं वृद्धा दातुमेकाकिनमाकारयते । ततः स तद्वेश्मनि समायातः, सापि बहुहर्ष दर्शयन्ती महताऽऽदरेण योग्यासने समुपावेश्य स्थाले च पायसं परिविष्य, घीलोडिकाग्रेण घृतबिन्दून् भोजनपात्रे पातयितुं लग्ना। इत्थं घृतबिन्दून् पातयन्त्यास्तस्या महान् कालो लग्नः । — यदेषा कृपणा चातुर्येण वञ्चयति' इत्यवधार्य जामाता सहसैव तस्याः करं गृहीत्वैकदैव घृतपात्रं पर्यवर्तयत, अभ्यधाच्च-पर्याप्तं जातमतः परं नापेक्ष्यते । श्वश्रू:-'अहो! पात्रे घृतं स्तोकमपि नाऽस्थात् , जामाता सर्वं भोक्ष्यति, तत्तु न वरम् , अत इदानीं कापि युक्तिः कर्तव्या' इति निर्धार्य 'जामातः ! आवयोश्चिरमालापादिकं निरुद्धमासीत् , अतोऽद्य सहैव द्वाभ्यां भोक्तव्यम्' इत्यभिधाय भोक्तुं निषसाद । परन्तु तदिशि स्थालस्य नीचत्वादधिकमासीत्सपिरिति विदित्वा तदुपालम्भनव्याजेनाऽङ्गल्या तघृतं स्वदिशि समाकृषन्ती जामातरमब्रवीत्-‘पुरा होलीदिवसे त्वमाकारितोऽपि नाऽऽगाः, दीपमालिकायामपि नाऽऽगाः' एवं तमुपलभमाना सकलमाज्यं स्वदिश्याकृष्टवती । तद्विलोकमानो जामाता ' अद्यावधि यदासीदावयोर्गमाऽऽगमाऽऽलापादिसहभोजनप्रतिरोधिवे. मनस्यं तत्सर्वं विहाय मन एकं विधातव्यं, गतन्तु मनसि नाऽऽनेतव्यम्' इत्याभाष्य स्थालमुत्थाप्य सकलं पायसं पीत्वा · मया प्रसन्नं त्वयापि च प्रसन्नमनसा भवितव्यम् ' इत्युवाच । असाविव जातमपराधं क्षमेत मिथ्यादुष्कृतं दत्त्वा क्षमापयेच्च । १४३ सदृष्टान्तोऽष्टप्रवचनमातास्वरूपम्
पञ्चसमितित्रिगुप्त्येवाऽष्टप्रवचनमाता निगद्यते । यथा लोके मात्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org