________________
नवमं व्याख्यानम् ।
( ३४६) मुत्थाप्य संस्तारोपरि न्यधित । जागृता चन्दनाऽप्राक्षीत्-मद्धस्तं कः केन कारणेनोदपाटयत ?, मृगावत्योक्तम्-स्वामिनि ! मयैव सर्पदशनभिया तथाऽकारि । अपृच्छच्चन्दना-ईदृशे गाढेऽन्धकारे समायातं सर्प कथमवेदीः ?, किं ते केवलमुत्पेदे ? । तयोक्तम्-भवत्याः प्रसादतस्तदुत्पन्नम् । ' हन्ताऽहं केवलिनमवजज्ञे' इति हेतुना खिद्यमाना मुहुर्मुहुः पश्चात्तापं कुर्वाणा तदर्थं क्षमयमाणा मिथ्यादुष्कृतं ददाना चन्दनापि केवलज्ञानमलभत । इत्थं भव्यैमिथ्यादुष्कृतं दातव्य. मिति भावः । १४१ कुम्भकार-शिष्ययोदृष्टान्तः___ कुम्भकारशिष्ययोरिव दत्तमपि मिथ्यादुष्कृतं वैफल्यं याति। तथाहिकश्चित्कुम्भकारो भाण्डानि निर्माय घर्मे शोषयन्नासीत् । तानि कोऽपि लघुशिष्यः कङ्करैः स्फोटयति स्म । यदा यदा प्रतिषेधति कुम्भकारस्तदा तदा मिथ्यादुष्कृतमदात् । एकदा प्रागिव स्फोटयतस्तस्य साधोरपि कर्णो सकङ्करपाणिना मोटयितुमारभत । यदा यदा · कर्णी पीडयेते ' इति रुदन्नवोचत तदा तदा कुम्भकारोऽपि मिथ्यादुष्कृतं दातुमलगत् । प्रान्ते महादुःखमनुभूय शिष्यस्तादृशकर्मणो विरराम । अत एतादृशं मिथ्यादुष्कृतं दायं दायं पापमाचरन् कोऽपि सुखी भवितुं नैव शक्नोतीति भावः। १४२ श्वश्रृजामात्रोदृष्टान्तः
समायाते पर्युषणपणि मानसवैकृत्यमत्वेऽपि लोकव्यवहारार्थ श्वश्रूजामात्रोरिव क्षमनीयमेव । तथाहि-क्वचिद् ग्रामे काचिदेका वृद्धा महाकृपणा पतिपुत्रविहीना बहुधना न्यवात्सीत् । तस्या आसीच्चैका पुत्री, सा तारुण्ये वयसि केनापि कुलपुत्रेण परिणायिता परन्तु कार्पण्यदोषात्सा जामात्रे किमपि न दत्तवती । अतः सोऽप्रसन्नतां नीतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org