________________
(३४८)
श्रीकल्पसूत्रार्थप्रबोधिनी. एकस्यां ग्रामटिकायामेकः कृषीवलो विप्रो निवसति स्म । क्षेत्रं कृषत. स्तस्यैकदा वृषभोऽतिवहनाच्छ्रान्तो वहनकाल एव निषसाद । तदा कुपितेन तेन पाणिना लकुटेन भृशं ताड्यमानोऽपि नैवोत्तस्थौ । ततश्चोकुप्यमानो ब्राह्मणस्तदुपरि तावन्ति लोष्ठानि चिक्षेप, यावद्भिस्तैश्छन्नो भूत्वा रुद्धश्वासो वृषभो ममार। मृते च तस्मिन् स पण्डितपार्श्व तद्वृत्तं यथावन्निगद्य गोवधपापापनोदाय प्रायश्चित्तमयाचत । पण्डितोऽब्रवीत्येन क्रोधेन तजघान सकोपस्ते शशाम वा न ? । विप्रोऽवदत्-चेदधुनापि स ममागे जीवनन्नाऽऽगच्छेत् , तर्हि पुनरपि तं हन्यामेव । तदुक्तिमाकर्ण्य पापिष्ठं मत्वा नैव पापान्मुच्यसे त्वमिति निगद्य जात्या बहिश्चक्रे । तद्वदेव सत्यपराधे यो न क्षमयेत, सोऽपि सर्वैर्बहिरेव कर्त्तव्यः । १४० अज्ञानकृतमन्तौ मृगावतीदृष्टान्तः
कदाचिदज्ञानतो जातेऽपि मन्तौ मृगावतीव क्षमापयेत । तथाहिएकदा वीरविभुः कौशाम्ब्यां पुर्या समवससार, तत्र भगवतो वन्दनार्थ सहैव चन्द्रसूर्यावुभौ मूलविमानेन समागतौ । चन्दनबालामृगावतीप्रभूतयस्तदा तत्रैव विभोर्देशनां शृण्वन्त्य आसन् । तासु चन्दनबालाप्रभृत यस्तु दिनान्तकाल एवोपाश्रयमाजग्मुः। मृगावती प्रभुदेशनाऽवहितमनास्तत्रैव तस्थौ । चन्द्रसूर्ययोर्गतयोरन्धकारे सर्वत्र प्रसृते बह्वी गता रजनी, इति ज्ञात्वा चन्दनादिका अपश्यन्ती सत्येकाकिनी मृगावती त्वरया व्रजन्ती स्वस्थानमागत्यर्यापथिप्रतिक्रम्य चन्दनायाश्चरणौ चम्पयन्ती ' अहमियती वेलां तत्रैकाकिनी स्थित्वा निशि समागतास्मीति ममापराधं क्षमस्व, पुनरो नैवं करिष्यामि । इत्युवाच । —त्व. मुत्तमकुले जातासि, अतस्त्वया पुनरेवं न विधेयम्' इति चन्दनादत्तशिक्षणं शृण्वती शुद्धेन मनसा कृतापराधं क्षमयन्ती तत्क्षणं केवलज्ञानमलब्ध । चन्दना तु निदद्रौ, तदवसरेऽन्धतमसेऽपि केवलज्ञानत आगच्छन्तं फणिनं विदित्वा मृगावती चन्दनाया अध:पतितं पाणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org