________________
नवमं व्याख्यानम् ।
(३४७) १३८ अक्षमापणे ग्राम्यलोकदृष्टान्तः
यो हि परस्मै द्विष्ट्वा न क्षमयति, तस्याऽनों वर्द्धते, ग्राम्यलोकवत्तथाहि-क्वचिद् ग्रामे भाण्डै तं शकटं लात्वा कच्चित्कुम्भकारो विक्रेतुमागात्। तस्यैकं वृषभमपहर्तुं तद्ग्राम्याः सकला धूर्तास्तत्र मिथो जल्पितुं लग्नाः-भो भो लोकाः ! पश्यत पश्यत, महदाश्चर्यमेतदसौ समागतः शकट एकेनैव वृषभेण याति । तच्छ्रत्वा कुम्भकारः- एते सकला अपि चौराः सन्ति, यन्ममैकं वृषभं चोरयितुं वृषभद्वयबाह्यमप्येकबाह्यं ब्रुवन्ति ' इति निरचिनोत् । भाण्डविक्रयणे दत्तचित्तं तमवगत्य तदीय. मेकं वृषभमपहृत्य गोपयामासुस्ते धूर्ताः । गमनवेलायामेकं वृषभमपश्यन् भृशमाकोशन् ग्राम्यान् पृच्छन्नपि नैव लेभे । यं यं वृषभापहारमभाषत, ते ते ‘मयात्वेक एव वृषभोऽदर्शि' इत्येव निगदन् । ततः स निरस्तो भूत्वा दुःखेन स्वसदनमाययौ, परमेष तत्कोधेन सप्ताब्दी तन्नगरीयं क्षेत्रं खलं च सकलं भस्मसाच्चके । तेन ते धूर्ती महादुःखिनो भवन्तस्तद्दाहकमपश्यन्त एकदा यक्षयात्रायां मिलित्वा उच्चैः पटहं वादितवन्तः-यो नः क्षेत्रखले दहति, स प्रकटीभवतु । तदवसरे रूपान्तरेण सोऽजल्पत्-यस्यैकवृषभबाह्यं शकटं भवन्तो लुलोकिरे, तमेव दाहकमवगच्छत । इति श्रुत्वा ते विविदुः-यस्य पुरा वयं धौर्येनैकं वृषभमपहार्म स एव कुम्भकारो दहति । अतस्तस्मै वृषभं दत्त्वा पुराकृतमपराधं क्षामयेम चेदने पुनर्नो धक्ष्यति । इत्यवधार्य ते तस्मै वृषभं ददुः, क्षमयामासुश्च । तेन ते सुखभाजो बभूवुः । इत्थमपरैः कस्यचित्तादृशो मन्तु व कर्त्तव्यः, कदाचिजायेत तर्हि तत्कालमेव तेन तत्क्षमयेत यदुदर्के कश्चिदनर्थो नोत्पद्येत । १३९ अनुज्झितरोषोपरि कृषकविप्रदृष्टान्तः
यो हि कदाग्रहादिकारणेन पर्युषणपर्वणि क्रोधं नोझेत्स साधुः साध्वी वा शटितपर्णमिव सङ्घतो बहिष्कर्त्तव्यः कृषकविप्रवत्तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org