________________
(३४६)
श्रीकल्पसूत्रार्थप्रबोधिनी. सैनिकाः सुखिनो जाता। इत्थं क्षितीशो विपक्षनगरसीनि समागत्य तस्यौ। 'भोः । दासी जिघृक्षसि चेद् गृहाण, न मे तेन कापि क्षतिः, प्रतिमामिष्टतमा प्रत्यर्पय, नो चेत्समराय समुद्यतो भव ' इति दूतमुखेन तमु. वाच । दूतोक्तमाकर्ण्य चण्डप्रद्योतनोऽपि चतुर्दशमुकुटधारिनरपालैः सह सम्मुखमाययौ । ततो मिथो युद्धे प्रवर्त्तमाने पुराऽनलगिरिकरिवरमनारुह्मैव योद्धव्यम्, इति निश्चितामपि प्रतिज्ञां भक्त्वा चण्डप्रद्योतनस्तमेव गजमारुय योद्धमलगत् ; परन्तु तमञ्जसा गजस्कन्धादधो निपात्य ' एष चण्डप्रद्योतनो मम दास्याः पतिः' इति तल्ललाटपट्टेs. ऋयित्वा प्रतिमां ग्रहीतुमलगत्, तदाऽनुत्तिष्ठन्त्यां प्रतिमायां व्योमगीरभूत-' राजन् ! प्रतिमां नोत्थापय, अत्रैव मुञ्च । यतो हि वीतभयः पत्तनीयविनाश आसन्नोऽस्ति ।' तामाकर्ण्य प्रतिमां तत्रैव मुक्त्वा चण्डपद्योतनं बद्ध्वा नीत्वा च चचाल । अधिमार्ग समागतं पर्युषणं विज्ञाय ससैन्यस्तत्रैव शिबिरं कर्तुमादिशदुदायनराजा । तच्च विधिवदाराधयन् स्वयमुपवसन् — यथारुचि पक्त्वा चण्डपद्योतनो भोजयितव्यः' इति पक्तारमादिश्य जिनार्चनादि कृत्यं प्रारेभे । पाचकस्तमपृच्छत्अद्य किं पक्तुमादिशसि ?, सोऽवदत्-तव राज्ञे यद्यद्रोचेत । सूपकारोऽजल्पत्-अद्य पर्युषणत्वात्स नाऽशिष्यति, अतो भवते यद्रोचेत तदुच्यताम् । नूनमद्य मां विषमाशयितुं पृथगेव पिपाचयिषति ' इत्यवधार्य चण्डप्रद्योतनो जगाद-अहमप्युपवत्स्यामि, मदर्थ मा पाक्षीः । तव राजा. स्ति मे सधर्मी, अहमप्याहतमेव धर्म सेवे । इति तद्वचनं पाचको निजस्वामिनमवोचत । तद्धौवं जानान उदायनभूपतिः ' भयादपि साधर्म्यमुपगतमेनं क्षमयित्वैव प्रतिक्रमणकरणमुचितम् ' इति विचार्य कारागारात्समानाय्य क्षमयित्वा तल्ललाटपट्टे सौवर्ण पट्टे बन्धयित्वा सत्कृत्य च चण्डप्रद्योतनं स्वराजधानी यातुमादिशत् । इत्थमन्यैरपि क्रोधं महान्तमपि त्यक्त्वा द्विडपि क्षाम्य एवेति हार्दम् ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International