________________
नवमं व्याख्यानम्।
(३४५) नृपोऽचकथत । प्रभावत्यपि नृपोक्तं स्वीकृत्य दीक्षिता सती संयममवित्वा स्वायुषः क्षये देवगतिमाप्नोत् । अथैकदा प्रभावतीदेवस्तापसरूपेणाऽमृतफलं दर्शयित्वा नृपं वनमानीय सर्वे योगिनस्तं हन्तुमलगन् । तदवसरे नरपतिः प्रभावतीदेवं सस्मार । सोऽपि तत्क्षणं तत्राऽऽ. गत्य नृपमुत्पाट्य साधुसमीपे तत्याज। तत्र सर्वतः सारं धर्ममेवेति मत्वा श्राद्धव्रतं प्रतिपद्य स्वस्थानमाजगाम ।।
अथ प्रव्रज्याकाले तां वीरप्रतिमामर्चितुं प्रभावती दासीमादिदेश, सैवाति नित्यम् । तत्रैकदा प्रतिनगरं प्रतिचैत्यमर्चितुं निर्गतः कश्चिद् गान्धारनामा श्रावकः समागत्य तामपि प्रतिमामानर्च । ततस्तं समुत्पन्नज्वरादितं दासी-देवदत्ता पथ्यौषधदानेन स्वस्थीकृतवती । तस्यै च गुटिकाद्वयं समर्प्य तद्गुणश्चाऽऽभाष्य गान्धारोऽन्यत्र गतः। ततः सा प्रथमगुटिकामशित्वाऽप्सरा इव सुरूपा जाता, ततएव स्वर्णगुलिकेति नाम्ना सर्वत्र पप्रथे। चण्डप्रद्योतनं राजानं मनसि भतारं कृत्वा द्वितीयगुटिकाञ्च ववल्भे। तेन तदधिष्ठातृदेवतोज्जयिन्यामागत्य नृपाये तथा दासीरूपमवर्णयद्यथा तत्कालमेव स नरपतिस्तस्यामेव रात्रावनलगिरिगजारूढस्तत्रागात् । दासीमाकार्य गन्तुमुवाच, तयोक्तं प्रतिमा विना नाहं गन्तुमर्हामि । ततो राजा तादृशीमपरां प्रतिमां तत्र संस्थाप्य देवार्पितां प्रतिमां चाऽऽदाय दास्या सह स्वपुरमाययौ । प्रातःकाले उदायनराजा मदविधुरं निजगजराजमालोक्य 'अनलगिरिकरिणमारुह्याऽत्राऽऽगत्य चण्डप्रद्योतनः खलु दास्या सह वीरप्रतिमामहरत् ' इत्यवगत्य कोपाटोपाद्रक्तीकृतलोचनो दशभिर्मुकुटबद्धभूपतिभिः सहामितचतुरङ्गचमूपरिवृत उदायनराजोज्जयिनीम्प्रतस्थे । मार्गे च जैसलमेरु-ब्रह्मसरःसमीपमा. गत्य जलमलभमानस्तृषाक्रान्तो राजा प्रभावतीदेवं सस्मार । स शीघ्रमागत्य देवशक्त्या पुष्करप्रमुखं मिष्टवारिपूर्णमने तटाकमकरोत् , तैश्च सर्वे ४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org