________________
(३४४)
श्रीकरुपसूत्रार्यप्रशोधिनी. चिदेकदा हासा-प्रहासादेव्यो विलोक्य मदनातुरस्तल्लिप्सया तद्दर्शितोपायेन श्रावकेण नागिलसखेन वारितोऽपि ज्वलन्त्यां चितायां निपत्य तयोः पतिर्विद्युन्माली देवोऽजायत । अथैकदा शक्रेन्द्रः सपरिवारो नन्दीश्वरद्वीपयात्रायै कृतप्रयाणः पटहवादयन्नग्रेऽने चलितुं विद्युन्मालिनमादिदेश । ततो हासा-प्रहासे तद्गले पटहं निदधाते, परमसौ तथाकर्तुं नैव चकमे । तदोक्तं ताभ्याम्-स्वामिन् ! गले पतितोऽसौ नैवाऽधुनोत्तरिष्यति, अत एनं वादयता त्वयाऽग्रे चलितव्यमेव ' ततोऽनिच्छन्नपि स तदकरोत् । तदवसरे द्वादशे देवलोके समुत्पन्नो नागिलजीवोऽपि शक्रेण साधं गच्छन्नेनमुवाच-पुरा भवे मदुक्तिं नामस्थाः, अतस्त्वं नीचदेवयोनावुदपद्यथाः, परमधुनापि मगिरं मनुषे चेद् गोशीर्षचन्दनमयीं महावीरविभोः प्रतिमां विधाय समुपास्व, येन सम्यक्त्वमधिगम्य श्रेष्ठगतिमाप्स्यसि । तद्वचसाऽसौ तथाकुर्वाणः प्रान्ते स्वच्यवनमासन्न मवगत्य तां प्रतिमा मञ्जूषान्तर्निधाय पिधाय देवाधिदेवस्य प्रतिमेति कथयित्वा च पोतस्वामिना सह वीतभयपत्तने उदायनभूभुजः पार्श्वे प्रैषीत् । सोऽपि समेत्य राज्ञे तां दत्त्वा देवाधिदेवप्रतिमाऽस्त्यस्यां केनचिद्देवेन भवते मद्धस्तेन प्रेषिता । ततो नरनाथः प्रसद्य ब्रह्मविष्णुमहेशाद्यन्यदेवनाम्ना तामुद्घाटयितुं प्रायतत, परन्तु तस्या उद्घाटनं नाऽभूत् । तावद्राज्ञी प्रभावती तत्राऽऽगत्य : चेद्देवाधिदेवः श्रीअर्हन् भगवाँस्तर्हि समुद्धट्यतामेषा पेटिका' इति व्याजहे। तदैवोटिता सा, तदन्तः प्रतिमां निष्काश्य चैत्येऽतिष्ठिपत्, सदा राज्ञी तामानर्च । अथैकदा पूजाकालिकं सितं वस्त्रमानेतुं दासीमादिशत्तयापि तदानीय प्रादायि । दृष्टिदोषेण राज्ञी सितमपि तद्वसनं रक्तं मत्वा दास्यै चुकोप । कालान्तरे पुनस्तं वसनं सितं विदती राज्ञा' ममायुः षण्मासिकमात्रमवशिष्यते' इत्यवधार्य राजानं दीक्षार्थमादेष्टुं प्रार्थयत । ' चेन्मे कष्टे पतिते स्वर्लोकादागत्य समुद्धरेस्तर्हि दीक्षा ग्रहीतुमादिशानि ' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org