________________
नवमं व्याख्यानम् ।
( ३४३) नखक्षतान्यपि समुत्पद्येरन् । ये पुनरशक्तग्लानबालखञ्जाः सति लुश्चने ज्वरादिपरिबाधिताः साधवः साध्व्यश्च भवेयुः, तैरपवादतः प्रतिमासे क्षुरमुण्डनं, प्रतिपक्षे कर्तर्या कृन्तनं वा विधाय क्रमशो गुरुमासिक लघुमासिकं च प्रायश्चित्तं कर्त्तव्यमिति केशलुञ्चनविषया द्वाविंशतितमा।
(२३ ) साम्वत्सरिकप्रतिक्रमणं समाप्य ज्ञानादज्ञानाद्वा जातमपराधं साधुः साध्वी च मिथः क्षामयदेव, प्रमादादिना मनसि नैव धारयेत्तम् । चेत्कश्चित्कुर्वीत तर्हि स इतरेवं भाष्यः-आर्य ! कथमेवम योग्यमाचरसि ?, इत्थं प्रतिबोधितोऽपि कषाय नोज्झेत्तदा शटितपर्णवत्तं सङ्घतो बहिः कुर्यादित्यधिकरणोदीरणविषया त्रयोविंशतितमा । __(२४) प्रावृषि स्थिताः साधवः साध्व्यश्च वा चेत्पर्युषणदिने कलहायेरन्, कनि वा भाषेरन् , उद्विजेरन् वा तर्हि शिष्या रत्नाधिकादिकं क्षामयेयुः। रत्नाधिकादयोऽपीदृशाश्चेच्छिष्यादिकं क्षमापयेयुरेव । इत्थं क्षमयित्वा मिथः कषायमुपशभयितुं यतितव्यम् । तदुपशमकर्त्तारो ज्ञानादेराराधकाः, अन्यथा विराधका जायन्ते । अस्यैव हि सारत्वं भगवता प्रत्यपादि, अतः सकलसाधुसाध्वीभिस्तदर्थं यतितव्यमेवे. तितत्त्वमिति मिथः क्षमणक्षमापणविषया चतुर्विंशतितमा । १३७ क्षमापणमावश्यकं तदुपरि उदायननृपदृष्टान्तः___ यो हि ज्ञानादज्ञानाद्वा जातं जायमानं कलहं न क्षमयते स निकाचितं कर्म बध्नाति, तस्य जपतपःप्रतिकमाणादिसकलापि धर्मक्रिया वैफल्यं व्रजति । अत एव सूत्रकृतो लिखन्ति 'जो उवसमइ तस्स अस्थि अराहणा, जो न उवसमइ तस्स नस्थि आराहणा' योयुपशाम्यति तस्याऽऽराधनास्ति, यो नोपशाम्यति तस्य नास्त्याराधना, किन्तु विराधनैव भवति । अत उदायनराजेव कृतकलहं क्षमयित्वैव साम्वत्सरिक-प्रतिक्रमणं विदधान आराधको भवितुमर्हति नेतरथा । तथाहि
चम्पापुरीनिवासी पञ्चशतरमणीप्रियः स्वर्णकारः कुमारनन्दी कदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org