________________
नवमं व्याख्यानम् ।
( ३५७) भूत्वा तदादेशेन नित्यं पुत्रं हादयति, वस्त्रादिकश्च क्षालयति, ततएव लोकास्तस्य 'हदनीया' इति नाम धृतवन्तः।” देवदत्त ! त्वमप्येवमेव स्त्रीवश्यो नाऽसि चेत्त्वां याचेय । इत्याचक्षमाणं शिष्यं लोकाः कथितुं लग्नाः-एनमपि तादृशमेव जानीहि । देवदत्तेनोक्तम-एते मामुपहसन्ति, अतस्त्वं याचस्व, दास्याम्यहं तुभ्यं तदवश्यम् । साग्रहं तद्वचः श्रुत्वा शिष्यः घृतशर्करामिश्रितं सेवमयाचत । देवदत्तो जगाद-सदनं ब्रज ततः शिष्येण सह स स्वगृहं चचाल । मार्गे शिष्योऽवदत-तव पत्नी मेऽकुप्यत्, तत्कथं दास्यसि ?, देवदत्त उवाच-मा शोचीः, तदुपायं करिष्यामि, तावत्त्वया बहिरेव स्थातव्यम् । इति निगद्य गृहान्तरागत्य पत्नीमुवाच--मयाऽद्य ब्राह्मणो निमन्त्रितः, आयाति च सः, त्वया किमपाचि ? । साऽवक्-सेवः, श्रेष्ठी बभाषे-तर्हि तूर्णमु. परि याहि, घृतशर्करे समानय । सा निश्रेणिकोपरि चटित्वा यावद् घृतशर्करे समानयति, तावद्देवदत्तः शिष्यमाकार्य यथेष्टं सेवप्रमुखं दातुमलगत् , तदोक्तं साधुना महाभाग ! निश्रेणिकां पृथक् कुरु, ततो निश्रेणी पृथक् कृत्वा तस्मै सेवमदात् । नीचैरागन्तुमशक्ता सोपरिस्थैवाऽऽक्रोष्टुं लग्ना-अस्मै कथं ददासि ?, अयन्तु पाषण्डी लक्ष्यते । इत्थमाकोशन्त्यामेव तस्यां पर्याप्तं गृहीत्वा निर्गच्छन् घ्राणं तेऽच्छत्समिति घ्राणोपरि कराङ्गुलीव्यापारेण सूचयन्नुपाश्रयमागत्य समानीतं सेवादिकं सर्वान् संभोज्य कृतां प्रतिज्ञामपिपः । एवमेव सगर्वं साधुना साध्व्या वा किमपि नाऽऽदेयमिति भावः । मायोपरि आषाढभूति मुनिकथा
(३) आषाढभूतिमुनिरेकदा राजगृहनगरे गुज्ञिया गोचर्ये निर्गतः कस्यचिदेकस्य नटस्याऽऽलयं प्राविक्षत् । विद्यया च रूपान्तरं कृत्वा पञ्चकृत्वस्तदोकसि गत्वा प्रतिवारं मोदकानलब्ध । तदालोकमानो नटः स्वदुहित्रो रूपलावण्यवत्योरनूढयोर्मोहपाशे तमपीपतत् । ततोऽसौ गुर्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org