________________
सप्तमं मास्यानम् ।
(२२५) नाभिराजः स्वयमेव प्रेयस्यै मरुदेव्यै बभाषे। अथैवं सार्धसप्तदिवसाधिका नवमासी गर्भे स्थित्वा चैत्रकृष्णाऽष्टम्यां रात्रावुत्तराषाढः चन्द्रयोगे भगवानृषभदेवः प्रादुरासीत् । तन्महामहमिन्द्रादयश्चकुस्तदानीं ग्रामादेरभावाद्वन्दिमोक्षणकौलिकपद्धतिकरणधर्माद्यर्थद्रव्यविनियोगादयो न विदधिरे । भगवतो जघने वृषभासद्भावात्स्वप्ने वृषभावलोकनाच माता · वृषभ ' इति नाम चके । अतिसौन्दर्यशालिनं भगवन्तमिन्द्राणी निजोत्सङ्गे निधाय भूयो भूयो रमयति । सुनन्दाख्या युग्मजा भगवता सहैवाऽऽविरासीयुगलत्वेन । तथैकं युग्मजातं पुंस्त्रीरूपं तन्मातापितृभ्यां तालवृक्षस्याऽधस्तादमोचि, दैवाच्छिरसि तालफलपातादकालमृत्युमुपनीतः पुमान् । स्त्री च जीवन्ती मातापित्रोः स्वर्गतयोरितस्ततः पर्यटन्ती कैश्चियुगलनरैरौक्ष, ततस्तामानीय नाभिराजाय स. मार्पयन् । नाभिरपि तां सुन्दराकृतिं विलोक्य भविष्यतीयमपि सुनन्दया सार्धं वृषभस्य प्रेयसीति ‘सुमङ्गला' इत्यभिधां दत्त्वा गृहेऽतिष्ठिपत् । ततस्ते सुनन्दासुमङ्गले भगवता सहैव ववृधे । एकदा सन्तप्तचामीकरच्छविर्भगवान् मन्दम्मन्दं ब्रजञ्छान्तिश्चाधिगच्छन्नस्पष्टं भाषमाणो मात्रा भणित:-' वत्स ! त्वमिन्द्राण्याः प्रेयानसि, तत्पार्श्व एव तिष्ठसि, मदन्तिकं नाऽऽयासि, सुरार्पितममृतं धयसि, मामकं स्तनमपि नैव पिबसि तर्हि लोकास्तन्मातरं मां कथं वदिष्यन्ति १, इत्यादि जल्पन्ती मरुदेवी भृशं लालयामास । ९१ शकेन्द्रकृतेक्ष्वाकुवंशस्थापना____ अथैवं भगति किश्चिदूनाऽब्दिके जाते भगवद्वंशस्थापनां चिकीर्षुः करधृतेक्षुरिन्द्रस्तत्रागत्य पितुरङ्कस्थितस्य प्रभोरगे तस्थौ । महान्तं
१ मरुदेव दृष्टचतुर्दशस्वस फलानि देवेन्द्रा व्याख्युरिति हेमचन्द्राचार्यत्रिषष्टिपुरुषशलाकाचरित्रे व्यलेखि ।
२९
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org