________________
( २२६ )
श्री कल्पसूत्रार्थप्रबोधिनी.
तमिदण्डमुदीक्ष्य जिघृक्षुर्भगवान् पाणिं प्रसारितवान् । तदा 'प्रभो ! भोक्तुमिच्छसि किमेनमिक्षुम् ? ' इति निगद्य भगवते प्रदाय इक्षोरभिलाषोदयादिक्ष्वाकुवंशः स्वामिनः प्रख्यातिमुपैतु, गोत्रञ्चाऽप्येतत्पूर्वजानां काश्यपमस्त्विति शक्रो वंशस्थापनां व्यधत्त । अथोत्तरकुरुक्षेत्रजातकल्पपादपफलानि समानीय भगवते भोजनवेलायां देवाः समर्पितवन्तः । शैशवे तु सुरसञ्चारिताऽमृतरसमयमङ्गष्ठमेवाऽदधत् । इतरे च तीर्थङ्कराः शैशवे सुरसञ्चारितसुधायाऽङ्गुष्ठपानम्, बाल्याऽतिक्रमे गृहियोग्यमन्नाहारञ्च कृतवन्तः । गृहीतसंयमानां तु समेषां तेषां प्रासुकमेवाऽशनम्भवति ।
९२ भगवतो विवाहः, पुत्रसंख्यानश्च -
अथ शैशवोत्तीर्णं तारुण्यपूर्ण भगवन्तं भोगसमर्थं प्रेक्ष्य प्रभो - विवाहोत्सव विधानायाने कदेव देवी कोटिपरिवृतः सुरनायकस्तत्राऽऽगात् । ततः शक्रादयो वरपक्षका भूत्वा भगवतो वरकृत्यं व्यद्धत । इन्द्राणीप्रमुखा देव्यश्च द्वयोः कन्ययोर्वधूकृत्यं विदधिरे । ततो महता महेन यथाविधिसुरचिते महामण्डपे ताभ्यां कन्याभ्यां सह भगवतो विवाहमकुर्वत । ततः प्रभृति लोके प्रचलितो विवाहविधिः । तत उभाभ्यां सुनन्दासुमङ्गलाभ्यां भगवान् षड्लक्षपूर्वपर्यन्तं सुखमन्वभूत् । तदा सुमङ्गला भरतब्राह्मीनामकं युगलम्, सुनन्दा तु बाहुबलीसुन्दरीनाभकं पुंस्त्रीरूपं युगलमसूयत । तदनु सुमङ्गला त्रिभुवन जननिवहप्रशस्यमानमारविजित्वरतनुत्विषा विभासुराणि, पुराकृतसुकृतशतसम्प्राप्ताऽतुलतेजिष्ठानि क्रमश एकोनपञ्चाशत्पुत्रयुगलानि प्रसूतवती । तेषामिमानि नामानि ।
"
१ भरतः २ बाहुबलि ३ शङ्खः ४ विश्वकर्मा
Jain Education International
५ विमल:
६ सुलक्षणः
७ अमलः
८ चित्राङ्गः
६ ख्यातकीर्त्तिः
१० वरदत्तः
११ सागरः
१२ यशोधरः
For Private & Personal Use Only
१३ अमरः
१४ रथवरः
१५ कामदेवः १६ ध्रुवः
www.jainelibrary.org