________________
( २२४ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
तीमालोक्य रतिं ययाचे । तदभ्यर्थनं श्रुत्वा सा सतीत्वात्तमेवमुवाच - रे पापिष्ठ ! मित्रपत्नीं मामेवं कामयमानस्य ते जिल्ह्वा किमिति शतधा न जायते ?, धिग् धिक् त्वामेवं गर्हिताचारिणम् । इत्थं तिरस्कृतः स समागत्य तद्भर्त्तारं जगाद - सखे ! तव वधूरसती वर्त्तते, यन्मां भूयो भूयः कामयते । परमहं मित्रस्त्रीत्वादगम्यां ज्ञात्वा खलूपे । सरलत्वात्तत्तथ्यं मन्वानो वैराग्यमापन्नः काले मृत्वा ईक्ष्वाकुभूमौ युगलो जातः । मायावी च मृत्वा कापट्यात्तत्रैव हस्तियुगलोऽभूत् । तावेकदा परस्परावलोकनेन जातिस्मृति लेभाते । ततः सौहार्दात्तं नित्रपृष्ठमारोप्य सर्वत्र भ्राम्यति । अतएव सर्वे युगलास्तं ' विमलवाहनं ' नाम चक्रुः । इत्थं कियति कालेऽतीते कल्पवृक्षेऽपि प्रागिव फलं दातुमलग्ने । सर्वेऽपि युगलाः कालदोषात्परस्परं व्यवदन्त, कल्पपादपानप्यात्मसाच्चक्रुस्ते । तत एकस्मिन्नाश्रिते पादपे परस्मै स्थानं न ददाति स्म । बलादागते तदैव विमलवाहनपार्श्वमागत्याभियुज्यते स्म । सोऽपि तमाकार्य ' ह: ' इति इकारात्मकं दण्डं ददते । इत्थं दण्डं ददमाने तस्मिन् सर्वे मिथो विरोधमत्यजन् । एवमादौ हकारात्मिकां नीतिं सोऽतिष्ठिपत् । एतस्य भार्या चन्द्रयशाः, शरीरश्व नवशतधनुःप्रमाणमासीत् । तस्य चक्षुष्मान्नामा पुत्रोऽभवत् । तत्पत्नी च चन्द्रकान्ता, कायिकं प्रमाणश्चाष्टशतधनुरासीत् । स्थापिताऽमुनापि इकार एव दण्डनीतिरितिद्वितीयः । तृतीयो यशोमानामा कुलकरो बभूव । सप्तशतधनुमत्रिकायः, पत्नी चास्य स्वरूपाऽभिधा जाता, दण्डनीतिः म: ' इति मकाररूपा जाता । ततस्तुरीयस्याऽभिचन्द्राख्यकुलकरस्य सार्धषट्शतधनुःप्रमाण शरीरस्य प्रतिरूपा नाम्नी पत्नी बभूव । सकलयुगलजन भीतिदा मकाररूपैव दण्डनीतिरासीत् । ततः पश्चमः प्रसेनजित्कुलकरचक्षुष्मती मार्या, षट्शतधनुः प्रमाणं शरीरं, धिक्कृतिमेव महादण्डनीतिरासीत् । षष्ठो मरुदेवो जज्ञे, एतस्य भार्या श्रीकान्ता, सार्धपञ्चशवधनुः प्रमाणं शरीरं, धिक्काररूपा च दण्डनीतिः । ततः सप्तमो नाभिनामा कुलकरो जनितः, मरुदेवी भार्या, सपादपञ्चशतधनुर्देहमानमासीत् । एतस्य शासनकाले धिकार एव महादण्डनीचिर्जज्ञे । इत्थं प्रथमद्वितीयकुलकरशासनकाले तृतीयचतुर्थयोश्च जघन्येन 'ह: ' उत्कृष्टतथ मः ' पञ्चमषष्ठसप्तमास्तु जघन्येन ' हं मध्यमेन ' मं ' उत्कर्षेण च ' धिक्कार ' लक्षणमेव दण्डं कुर्वन्ति स्म । एतान्येव महादण्डान् मत्वा केऽप्यन्यायं नाऽकुर्वत ।
•
6
इ
6
९० श्रीऋऋषभदेवस्य जन्म
अथैष भगवान् ऋषभदेवस्त्रिज्ञानोपेत आषाढकृष्णचतुर्थ्यां मातुर्गर्भे समुत्पेदे । ततो मरुदेवी माता चतुर्दश महास्वप्नान् पश्यन्ती प्रथमं मुखमाविशन्तं वृषभमद्राक्षीत् । तत्फलन्तुस्वप्नफलकथकानामभावत्वा
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org