________________
अष्टमं व्याख्यानम्र |
( २२३ )
I
नाभचक्रवर्त्ती श्रामण्यमवँश्चतुर्दशपूर्वानध्यगीष्ट । इतरे पञ्चाऽप्येकादशाङ्गीमधिजगिरे । बाहुनामा साधुः प्रत्यहं गोचरीमानीय पञ्चशतसाधून् भोजयति, सुबाहुमुनिश्च तावतां मुनीनां वैयावृत्थं कुरुते । पीठमहापीठौ चैकान्ते तपःस्वाध्यायतपांसि कुर्वाते । परन्तु गुरुप्रभृतयः सर्वे बाहुबाहोरेव प्रशंसां कुर्वन्ति पीठमहापीठयोर्नेति हेतोरिमौ मानसे मिथो दध्यतुः - ' हो ! निरीहाणामपि स्वार्थिनामिव कार्यपारवश्यता दृश्यते । यदेते तपःस्वाध्यायध्यानादिसत्कार्यकारिणोरावां मनागपि नैव प्रशंसन्ति । यौ च वैयावृत्यादिकं विदधाते तावेव स्तुवन्ति । ततो वज्रनाभो मुनिर्विशतिस्थानकं तपः समाराध्य तीर्थङ्करनामकर्म समचि - नोत् । बाहुमुनिराहारदानप्रभावाच्चक्रवर्त्तिजनकं कर्म बबन्ध । सुबाहुमुनिः सकलश्रमणवैयावृत्यकरणादबाहुबलनामकर्मार्जितवान् । पीठमहापीठौ च मत्सरीत्वात्स्त्री वेदमर्जितवन्तौ । यश्च षष्ठोऽनामिकाजीत्रः स एवा श्रेयांसकुमारो भविता । प्रान्ते ते सर्वे निरशनविधिना मृत्युमीयुरित्येकादशो भवः । ततस्ते षडपि सर्वार्थसिद्धिविमाने जज्ञिरे । तत्र च त्रयस्त्रिंशत्सागरोपमायुरध्यगच्छन्निति द्वादशो भवः । ततश्युत्वा त्रयोदशे भवे वज्रनाभजीवो जज्ञिवान् श्रीऋषभदेवः । बाहुजीवो भरतचक्री जज्ञे । सुबाहुजीवो बाहुबलोऽभवत् । पीठमहापीठयोर्जीवौ ब्राह्मी सुन्दर्यावभूताम् ।
८६ कुलकराणामुत्पत्तिः
पुरा खन्वत्र युगलमनुष्याणां नगरं क्वापि नाऽऽसीत् । कन्पवृक्ष एव सर्वेषां तेषां मनोरथं पिपर्त्ति स्म । तेषु प्रथमं सप्तकुलकरा उत्पेदिरे । तथाहि-- एतस्यामवसर्पिण्यां तृतीयारकान्ते पल्योपमस्याऽष्टमभागेऽवशिष्टे दक्षिणार्ध भरतस्य मध्यभागे त्रयः कुलकरा अजायन्त । तेषु प्रथमो विमलवाहननामा जातस्तदुत्पत्तिश्चैवम् - पश्चिममहाविदेहे द्वौ वणिजौ सखायौ न्यवात्ताम् । तत्रैकः सरलोऽपरो मायावी, तौ च सहैव व्यापृषाताम् । परन्तु मायावी सरलं छलयित्वा प्रत्यहं दैनिक वण्टन काले तदंशं निड्वे, सरलस्तु तन्न विवेद । अथैकदा केनापि कार्येण तदौकसि गतो मायावी तत्पत्नी बहुरूपव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org