________________
( २२२)
श्रीकल्पसूत्रार्थप्रबोधिनी. स्वर्णाभं देहमकुर्वत । तदनु साधु निर्बणं विलोकमानास्ते पमित्राणि प्रव्रज्य निरतिचारं श्रामण्यं परिपाल्य, प्रान्ते शुभध्यानेन कालं चक्रुरिति नवमो भवः । ततो दशमे भवे ते षडपि द्वादशे देवलोके सख्यभावेन देवा जज्ञिरे । ततश्चयुत्वाऽस्मिन्नेव जम्बूद्वीपे महाविदेहक्षेत्रे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या भाविजिनस्य वज्रसेनराजस्य धारणीराइयाः कुक्षावनुक्रमेण ते षडपि सखायः पुत्रत्वेनोत्पेदिरे । जीवानन्दजीवो मातुर्गमें चतुर्दशमहास्वप्नसूचितोऽजनिष्ट । तत्पिता द्वादशेऽहनि महामहेन 'वजनाभ' इति नाम दधे । द्वितीयस्य महीधरजीवस्य बाहु इत्याख्या जाता । तृतीयस्य मन्त्रिजीवस्य सुबाहुरितिनाम जज्ञे। चतुर्थस्य गुणाकरजीवस्य 'पीठ' इति नाम बभूव । पञ्चमस्य पूर्णभद्रजीवस्य 'महापीठ ' इति संज्ञामकरोत् । षष्ठः केशवजीवो यः पुराऽनामिकाऽऽसीत्, सोऽप्यन्यस्य राज्ञः पुत्रोऽभवत् , अभूच्चाऽयं वज्रनाभचक्रिणः प्रेयान् सखा, सार्थी च । इत्थमेते षडपि सुहृदः सुखमनुभवन्ति । अथैकदा तीर्थप्रवर्त्तनाय लोकान्तिका देवा आगत्य राजानं समयं सूचयामासुः । ततो वज्रनाभपुत्राय राज्यं दत्त्वा वार्षिकं दानं प्रारेभे । समायाते समये प्रव्रज्य घनघातिकं कर्मदलं क्षाययित्वा केवलज्ञानमधिगत्य तीर्थप्रवर्त्तयिता बभूव । स चैकदा पुण्डरीकिणीपुर्यामागात्, तदा वनपालो राज्ञे तदागमं व्यजिज्ञपत् । तदैव चक्ररत्नाविर्भावस्यापि वर्धापनमागात् । राजा मनसि दध्यौ-मया प्रथमं तीर्थङ्करः पूजनीयः ? चक्ररत्नं वा ?, तीर्थेशार्चनं द्वयमपि श्रेयो वितनुते, चक्रन्तु लौकिकमेव, इत्यवधार्य प्राक्केवलमहोत्सवं प्रावर्त्तयत् । महताऽऽडम्बरेण समागत्य भगवन्तमभिवन्य धर्मदेशनां निशम्य, गृहमागत्य चक्रपूजां विधाय षट्खण्डानि संसाध्य सुखेन राज्यं भुङ्क्ते । अथाऽन्यदा वज्रसेनजिनेन्द्रस्तत्र समवससार । वज्रनाभप्रमुखाः सर्वे लोकाः प्रभुवन्दनार्थमागमन् । तत्र भगवन्मुखाद्धर्मदेशनां श्रुत्वा ते षडपि सखायो दीक्षां ललुः । तेषु वज्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org