________________
अष्टमं व्याख्यानम् |
( २२१ )
-
पुत्रः ३, चतुर्थः सागराख्यमहेभ्यस्य पूर्णभद्रनामा पुत्रः ४ । इतः श्रीमतीजीवोऽपि सौधर्मदेवलोकाच्च्युत्वा ईश्वरदत्तस्य केशवनामा पुत्रोऽभवत् । एते पञ्चापि जीवानन्दस्य मित्राण्यासन् । सर्वेऽप्येते सहभोजिनो रमणादिना सुखेन कालं गमयन्ति स्म । अथैकदा जीवानन्दसदने षडपि मित्राणि निषीदन्ति स्म । तत्रैकः कुष्ठीसाधुर्गोचर्ये समागात् । तमालोक्य करुणया ते पञ्चापि मिलित्वा वैद्यपुत्रमूचुः - मित्र ! जगति सर्वे वैद्या धनार्थिनो भवन्ति, धर्मं मनागपि नैव जानन्ति, नोचेदेनं कुष्ठरोगार्त्तं साधुं नीरुजं कुरुष्व, तदा त्वामपि धर्मात्मानं ज्ञास्यामः । जीवानन्दो जगाद — यूयं साधु जल्पथ, परमेतद्रोगोपशमाय लक्षपाकं तैलमपेक्ष्यते । तत्तु ममास्ति परन्तु रत्नकम्बलगोशीर्षचन्दने न स्तः । ते यदि कुतश्चिद्भवद्भिरानीयेयातां, तर्हि नूनमेनं नीरोगं करिष्यामि । इति श्रुत्वा ते षमित्राणि लक्षद्वयं दीनारमेकत्रीकृत्य नगरश्रेष्ठिन गृहमागत्य समूचुः -' इदं मूल्यं गृहाण, रत्नकम्बलं गोशीर्षचन्दनञ्च देहि ' श्रेष्ठी जगाद - इयता मूल्येन क्रीत्वा यूयमिमे किं करिष्यथ ? । तैरुक्तम् - साधोर्वैयावृत्त्यम् । श्रेष्ठी व्यमृशत् - अहो ! एते बालास्तथाप्येतेषां धर्मे ईदृशी बुद्धिर्दृश्यते, अहं जरया जर्जरीकृतगात्रोऽपि धर्मं नाऽऽचरामि । धिङ् मामिति जल्पन्मूल्यं धर्मकार्ये विनियुज्य रत्नकम्बलगोशीर्षचन्दने च तेभ्यो दत्त्वा प्रव्रज्य श्रामण्यं परिपाल्यान्तकृत्केवलीभूय मोक्षं लेभे । तेऽपि षणिमत्राण्यौषधं लात्वा वनं गत्वा, कायोत्सर्गे स्थितस्य मुनेः सर्वाङ्गे लक्षपाकं तैलं मर्दयामासुः । तदनु चन्दनं व्यलिम्पन्, ततो रत्नकम्बलेन मुनिञ्च वेष्टयामासुः । इत्थं कृते चर्मस्थाः सर्वेऽपि कीटास्तद्रत्नकम्बलेऽलगन्, ताँश्च मृतगोशरीरे चिक्षिपुः । पुनस्तथा तैलमर्दनचन्दनविलेपनरत्न कम्बलवेष्टनादिकृते मांसस्थान् कीटान् निष्काशितवन्तः । पुनस्तृतीयवारं प्रागुक्तोपचारे कृतेऽस्थिगतान् कीटान् निष्काश्य रोहिण्यौषधं तदङ्गे सर्वत्र संमर्थ
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org