________________
( २२० )
श्रीकल्पसूत्रार्थप्रबोधिनी.
ग्रन्थ्युत्सवे समायातानां राजपुत्राणां मध्ये ललिताङ्गकुमारमुपलक्षितुं तच्चित्रपटं करे दधाना सा धात्री राजपथे समास्त 1 अथ चित्रपटमुदीक्ष्य जातिस्मृत्या स वज्रजङ्घोऽवदत्-अहो ! मत्प्राक्तनभवीयया स्वयम्प्रभया प्रेयस्या चित्रितं चित्रमिदमिति जाने । इमां वात्तां धात्री समेत्य श्रीमतीमवोचत 1 ततः सो तेनैव कुमारेण परिणीता सुखमनुभवति । अथैकदा सुवर्णजङ्घो राजा वज्रजङ्घाय राज्यं दत्त्वा दीक्षां ललौ । वज्रजङ्घोऽप्येकदा गवाक्षे सभार्यो निषण्णः सायङ्कालिकरागस्योत्पत्तिविलयौ पश्यन् मनसि दध्यौयत्सर्वमिदं लौकिकं वस्त्वसत् । केवलं धर्म एव शश्वदस्ति । प्रगे पुत्रं राज्ये नियोज्य प्रवजिष्यामीति निरचिनोत् । तत्रावसरे राज्यलिप्सया विषाऽग्निधूमपटलीमुत्पाद्य तौ मातापितरौ मारितवाँस्तत्पुत्रः । सप्तमे भवे तत उभौ स्त्रीपुंसावुत्तरकुरुक्षेत्रे युगलत्वेनोत्पदाते । ततोऽष्टमे भवे सौधर्मदेवलोके मित्रत्वेन तावजनिषातां देवौ । ततश्चयुत्वा जम्बूद्वीपे महाविदेहक्षेत्रे क्षितिप्रतिष्ठितनगरे सुबुद्धिवैद्यस्य जीवानन्दनामा पुत्रो जातः । तस्मिन्नेव दिने तत्र नगरेऽन्येऽपि चत्वारो जीवाः पुत्रत्वेनोदपद्यन्त । तत्रैकः प्रसन्नचन्द्रमहीभर्तुर्महीधरनामा पुत्रः १, द्वितीयः सुनाशीरप्रधानस्य सुबुद्धिनामा पुत्रः २, तृतीयो धन्नाश्रेष्ठिनो गुणाकरनामा
१ तीर्थङ्करसदसि निषण्णा श्रीमती सुरानालोक्य सञ्जातजातिस्मृत्या प्राग्भवीयल लिताङ्गजीव एवाऽत्रापि भवे मामुद्वहेश्चेद्वरमिति चिन्तोदधौ निरमज्जत् । ततः पूर्वभव सम्बन्धिनीं वार्त्ता पितरौ व्याजहार । पिता केवलिनमप्राक्षीत् प्रभो ! मत्पुत्र्याः प्राग्भवीयः पतिः कुत्रोत्पन्नोऽस्ति ? | केवल्यूचे-भवद्दुहितुर्जन्मान्तरीयललिताङ्गपतिरस्मिन् भवे लोहार्गलपुरे सुवर्णजङ्घभूपस्य वज्रजङ्घनामा पुत्रोऽस्ति । इति श्रुत्वा पित्रा तेन सह परिणायिता श्रीमतीति कचित् पुस्तक उपलभ्यते । कचिच्चैवमप्यस्ति यत्सा श्रीमती चित्रपटं निर्माय प्रोचे यो मामेतत्स्वरूपं वक्ष्यति तमेवाऽहं वरिष्ये नाऽन्यमिति श्रुत्वा बहवो राजपुत्रा यथामति बहुविधां कथां बभाषिरे, एकापि तस्यै नो रुरुचे । तदनु वाजनकुमारः प्रोवाच- मत्प्रेयस्याः स्वयम्प्रभायाश्चित्रमेतदित्यसंशयं जानामि । ततश्चक्रवर्त्ती तेनैव सत्रा निजपुत्रीं श्रीमती विवाहितवान ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org