________________
अष्टमं व्याख्यानम् |
( २१७ )
चार्यः प्रावृषः परं सार्थपतिना सह वसन्तपुरमागत्य तस्मै धर्मलाभं दत्त्वा यात्रार्थमचलत् । धनासार्थवाहोऽपि चिरं सम्यक्त्वं परिपाल्य प्रान्ते शुभध्यानेन ममारेत्येको भवः । तत उत्तरकुरुक्षेत्रे युगलत्वेनोत्पद्य त्रिपल्योपमायुर्भुक्त्वा मृत्युमुपनीतः, इति द्वितीयो भवः । ततच्युत्वा तृतीये भवे सौधर्मदेवलोके ' देवो ' जातः । ततश्चयुत्वा चतुर्थे भवे पश्चिममहाविदेहे गन्धिलावतिविजये शीतबलभूपस्य चन्द्रकान्ताराइयां ' महाबल ' नामा पुत्रो जातः । तत्र पितर्युपरते राज्यासनमारुह्य विषयसुखलोलुप्येन भोगपुरन्दरो भूत्वा विनयवतीप्रमुखाऽनेकराज्ञीभिभगं बोभुज्यमानो धर्मवार्त्तामजानन्ननारतं सङ्गीतादिनैव कालं गमयमहामोहनिद्रामुरीचक्रे । अथैकदा जायमाने मनः प्रीतिकरे नाटके गीते दत्तचित्तं राजानं महामात्यः सुबुद्धिर्जगाद -
"
―――――――――――――
" सव्वं विलवियं गीयं, सव्वं नहं विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १ ॥
""
I
इति श्रुत्वा राजा बभाषे - त्वयाऽधुना प्रस्तावमन्तरा वैराग्यमयीं गाथां कथमवादीः ?, सति रागे वैराग्यं नोदेति, वैराग्ये वा सरागतापि नोत्पद्यते । अतोऽनवसरे त्वदुक्तिः सर्वथा मुधैवास्ति । आह मन्त्री - राजन् ! अद्यैव कश्चित्केवली मामेवमुवाच - ' तव भूपतेश्चतुर्दिवसाधिकमासमात्रमायुरवशिष्यते, अतस्त्वां तत्सूचयितुमेवमवदम् । ' एनां वार्त्तामाकर्ण्यतिभीतिमापन्नः स राजा पुनरवोचत् - अहन्तु मोहनिद्रायां सुप्तोऽस्मि तथाभूतं मामधुना यदजागरयस्तत्तु सम्यगेव, परतु वह्नौ लग्ने कूपखननमिव तावकमिदं सूचनमकिञ्चित्करमेव भाति । सम्प्रति मासमात्रमायुरवशिष्टं भणसि, तत्र किं धर्माराधनं कुर्याम् १ । इत्थमनुतपतः क्षितिपतेः वचः श्रुत्वा मन्त्रिणा जल्पितम् -' राजन् ! मा शोचीः, ऐकाहिकमपि परिपालितं चारित्रं मोक्षं दातुमर्हति कदाचित्तद
૨૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org