SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) श्री कल्पसूत्रार्थप्रबोधिनी. : " ततः प्रत्यहं मन्दं मन्दं व्रजन् समागते वर्षर्तौ वारिवर्षति मेघे स आचार्यः संघेन सहाधिमार्ग कानन एवं चतुर्मासीमतिष्ठत् । सर्वत्र नद्यादेः प्रवृद्ध्या मार्गावरोधेन हरिततृणानां बहुलोत्पत्त्या च सर्वे लोका विविच्य पटावासान्निर्माय तस्थुः । धर्मघोषाचार्योऽपि शिष्यगणैः सहैकस्यां गिरिगुहायां निर्वद्यस्थानमाश्रित्य मासक्षपणतपस्यां विदधद्धर्मैकलीन आसीत् । इत्थं सार्थान् रक्षतस्तस्य सार्थवाहस्य पार्श्वे शम्बलः शून्यतामगमत् तेन सर्वे लोकाः कन्दमूलादिना कथमपि दिनानि निर्गन्तुमलगत् । तदवसरे कश्चिद् बन्दी सार्थपतिमूचे ' श्रेष्ठिन् ! तावकी सकीर्त्तिः प्रतिदिवस सर्वत्र प्रससार । त्वादृशा महाजना अङ्गीकृतं दुष्करमपि सुखेन पालयन्ति, जात्वपि स्वीकृत्य पश्चान्नैव विरमन्ति ' इति श्रुत्वा साथैशस्तं सूरिवरं सस्मार । स्वं विनिन्दन्नेवमचिन्तयत् - ' हा हा ! ! मया किमकारि ?, यदेनं सूरिं सार्थे महताग्रहेण समानीयापीयन्तं कालं व्यस्मार्षमतो नूनमहमभूवं विश्वासघाती । अतएव प्रभाते तदन्तिकं गत्वा कृतापराधक्षान्तयेऽभ्यर्थनीय इति निश्चित्य तत्पार्श्वभागत्याभिवन्द्य ब्रीडया नतानन एवं भाषितुमारेभे - प्रभो ! ममापराधं क्षमस्व, अहमेकदापि तावक चिन्तां नाऽकार्यम् । सार्थे ममेदानीं शम्बलो नास्ति, क्षीणे च तस्मिन् सर्वेषां महान् क्लेशो जायते किं कुर्याम् ? | जगदुर्गुरव:--' सार्थपते ! मदर्थं मनागपि चिन्तां मा कृथाः, मे सुखेनैव धर्मध्यानादिकं चलति । तव सार्थयोगादहमीदृशीं दुर्गमामटवीमुल्लङ्घितवान् । अकारि तत्र त्वया वात्सल्याऽतिशयः । ' इति गुरुभाषितं श्रुत्वा सन्तुष्यन् सार्थेशः सर्वान्मुनीन् आहारार्थं भावतो निमन्त्र्य, स्वस्थानमानीय तेभ्यः शुद्धमाहारं सघृतं महताभावेन दत्तवान् । दानकाले चात्यर्थं भावो ववृधे, तेन स सम्यक्त्वमध्यगच्छत् । स आ , १ यत्पञ्चशतघृत कूपिका दानान्तरमधिकं दातुकामं पार्श्वे च तदभावं पश्यन्तं चरे साधव:--- -भोः ! अलमभूद्धिकं नापेदयते चेत्तदधिकं किश्चिदपि तादृग्भावस्तिष्ठेत्, ति केवलज्ञानभागपि स्यादिति केचित् । Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy