SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अष्टमं व्याख्यानम् | ( २१५ ) बेतालीस हजार ऋण वर्ष साडा आठ मास न्यून पचास लाख कोडी सागरोपमे श्रीवीरनिर्वाण, तेवार पछी नव सो एंसी वर्षे पुस्तक वाचनादि । इति श्रीवीर जिनशासनशृङ्गारहार- सुविहित सूरि पुरन्दरनन्दनवनाSSरामविहारि - शिथिलाऽऽचारप्रचारतमोहारि - जैनाचार्य - भट्टारकश्रीमद्विजय राजेन्द्रसूरीश्वर सङ्कलितायां 'श्री कल्पसूत्रार्थप्रबोधिनी' नाम्न्यां टीकायां सप्तमं व्याख्यानं समाप्तम् । अथाष्टमं व्याख्यानं प्रारभ्यते । ->**< ८८ श्रीऋषभदेवस्य त्रयोदशभवाऽऽख्यानम् - अथैतदवसर्पिणीकाले प्रथमधर्मप्रवर्त्तकोऽर्हन् श्रीऋषभदेवस्वामी विनीतानगर्यामभूत् । तस्य च्यवन - गर्भवसन - जनन - प्रव्रजन - केवलज्ञानप्रापणानि चत्वारि कार्याण्युत्तराषाढा नक्षत्रे जज्ञिरे, पञ्चमञ्च तदभिजिन्नक्षत्रे जातम् । अधुनाऽऽदिनाथस्य त्रयोदशभवाः कथ्यन्ते । तथाहि Jain Education International एतस्मिञ्जम्बूद्वीपे महाविदेहक्षेत्रे सुप्रतिष्ठितनगरे प्रियङ्करो राजा राज्यं कुरुते । तत्र कश्चिदेको महर्द्धिको धनाभिधसार्थवाहो निवसति । स चैकदा वसन्तपुरं प्रतिष्ठासुर्ये खलु वसन्तपुरं जिगमिषन्ति, तैः सकलैया सहाऽऽगन्तव्यं तेषां समेषां भरणपोषणादिकं करिष्याम्यहमिति सर्वत्र पटहमवीवदत् । तच्छ्रुत्वा बहवो लोकास्तेन सत्रा जिगमिषवो बभूवुः । तदा तत्राऽऽगतः पञ्चशतमुनिमण्डलमण्डितो धर्मघोषमुनीन्द्रोSपि तदन्तिकमागत्य बभाषे - ममापि त्वया सह तत्रत्ययात्रायाश्चिकीर्षा वर्त्तते । सार्थेशोऽवदत्-सुखेन गच्छत । ततो मुनीन्द्रोऽपि सशिष्यश्च - चाल | मार्गे चैकदा केनचिदुपढौकितानि परिपक्कान्याम्रफलानि मुनिभ्यः प्रदातुमलगत् सार्थवाहः, परन्तु सचित्तत्वात्तानि ते न जहुः । For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy