________________
( २१८ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
"
भावेऽपि दैवं सुखन्तु ददात्येव । ' इत्याकर्ण्य स राजा पुत्राय राज्यं समर्प्य सप्तक्षेत्र्यां धनमुत्वाऽऽष्टाहिकं महोत्सवं विधाय सद्गुरोः पार्श्वे दीक्षां गृहीत्वा चतुस्त्रिंशद्दिव साँश्चारित्रं परिपाल्य प्रान्तेऽनशनेन प्राणमजहात् । पञ्चमे भवे ईशानदेवलोके प्रभवविमाने ' ललिताङ्ग नामा सामानिको देवोऽभूत् । तत्र स्वयंप्रभयाऽतिप्रेयस्या देव्या वैषयिकं सुखं भुञ्जानः कालं गमयति । अथैकदा स्वयम्प्रभादेवी ततश्चुच्योत । तदीयविरहान्मूर्छामापन्नः शोशुच्यमानो दुःखाकुलः स देवश्चिरं रुरोद । तदवसरे प्राग्भवीय सुबुद्धिनामा मन्त्री तत्रैव देवत्वेनोत्पन्नस्तं प्रत्यबोधत । तथापि तच्छोकं यदा न तत्याज, तदा मन्त्री व्याज - शोकं ज़हाहि, अहं तव प्रेयसीं जानामि तन्मेलनोपायञ्च वदामि । तच्छ्रयताम्, धातकीखण्डे महाविदेहक्षेत्रे नन्दग्रामे नागिलनामा गृहमेधी निवसति, तत्पत्नी च नागिली वर्त्तते । सा च प्रथमं षट्पुत्रीरसोष्ट । ता आलोक्य दध्यौ - यदि पुनर्मे पुत्री जनिष्यते तर्हि गृहं हास्यामि । दैवात्स्वयंप्रभाजीवस्तद्गृहे पुत्रीत्वेनाऽवतीर्णाऽभूत् । जातायां सप्तमपुत्र्यां तन्मातापितरौ महादुःखिनौ जज्ञाते । तत्पिता तु दुःखादेव गृहमजहात् । निर्गते पितरि ज्ञातयस्तस्या नामकरणादिकं नैव चक्रुः । अतः सर्वत्र 'अनामिका' इति नाम्ना सा पप्रथे । निर्धनत्वात्कोऽपि तां नो जग्राह । ततो यौवनमापन्ना सा काष्टं विक्रीय जीवन्ती प्रतिसदने दासीकृत्यं विदधती महादुःखमनुभवन्त्येकदा मोदकमश्नन्तं धनवतः पुत्रमालोक्य मातरं मोदकं ययाचे । तदोचे माता - पुत्रि ! मोदकं लातुं पिता ते गतोऽस्ति स लास्यति तदा दास्यामि । तावदन्तरगिरेः काष्ठभारमानीय विक्रीणीहि । इति मातुर्वचः श्रुत्वा रुदती सती सा काष्ठभारं लातुं गतवती । तत्र युगन्धरमुनेः कैवल्यज्ञाने समुत्पन्ने सुरेन्द्रस्तन्महिमानं वितन्वन्नासीत् । सापि तत्र गत्वा केवलिनं नमस्कृत्य धर्मदेशनां निशम्य तमप्राक्षीत - प्रभो ! मया जन्मान्तरे किमकारि ?. येनात्र ज
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org