________________
( २१०)
श्रीकल्पसूत्रार्थप्रबोधिनी. धतो नेमिनाथविभोरनन्तकेवलज्ञानदर्शने समुत्पेदाते । ततः समुत्पन्ने कैवल्ये देवैः समवसरणं व्यरचि रैवताचलोपरि सहस्राम्रवने । वनपालः समेत्य श्रीकृष्णं वर्धापितवान् । ततः कृष्णाद्याः सपरिवारा यादवा वन्दितुमाजग्मुः । राजीमत्यपि समायाता । तत्र भगवतो देशनां श्रुत्वा वरदत्ताख्यो राजा प्रतिबुध्य सहस्रद्वयपुरुषैः सह प्रावाजीत् । ८४ स्वस्य राजिमत्याः सह प्राक्तनभवकथनम्
तदवसरे कृष्णोऽवादीत्-'प्रभो ! एषा राजीमती त्वयि कथमियन्तं मोहं बिभर्ति ? ' भगवानुवाच-कृष्ण ! मया सहैतस्या आष्टभविकः सम्बन्धो वर्तते । तथाहि-प्रथमभवे धननामाऽहमासं राजा, एषा धनवती नाम्नी राज्ञी ममाऽभूत् । द्वितीये चावां देवलोके देवा. वभूताम् । तृतीये ततश्युतोऽहं चित्रगतिनामा विद्याधरराजो बभूवान् , इयं मे रत्नवती नाम्नी राज्ञी बभूव । चतुर्थे द्वावपि तुरीयदेवलोकमगमाव । पञ्चमे ततश्युतोऽपराजितनामा राजाऽभूवम् , एषा प्रियमती नाम्नी मे भार्या जाता । षष्ठे चोभौ खल्वेकादशं देवलोकं प्राप्तौ । सप्तमे ततश्चयुत्वाहं शङ्खनामा राजा जज्ञिवान् , तत्रेयं सोमवत्याख्या राज्ञी मे बभूव । अष्टमे चावामुभावपराजिताख्याऽनुत्तरविमाने देवौ जातौ । ततश्चयुत्वा नवमेऽस्मिन् भवेऽहं नेमिर्जातोऽस्मि, इयञ्च राजीमती जातास्ति । इति राजीमत्या सह स्वस्य सम्बन्धं व्याहृत्य भगवानन्यत्र विजहार । ८५ राजीमत्या दीक्षाऽऽदानं, रथनेमेः प्रबोधो, मोक्षगमनश्च---
पुनरेकदा भगवान्नमीश्वरो रैवताचलोपरि समवससार । तदा बहीभी राजकन्याभिः सह राजीमती दीक्षा ललौ । रथनेमिरपि दीक्षां जग्राह । एकदा रथनेमि-रिकातो गोचरी लात्वा भगवदन्तिकमागच्छन्मार्गे वृष्टिभिया रैवताचलगुहान्तः प्रविश्यैकत्र कोणे समास्त । दैवा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org