________________
सप्तमं व्याख्यानम् ।
(२८६) नैव चिकीर्षामि, इत्थं व्याहृत्य मनोरथशतैः कालं गमयन्ती शीलमवन्ती पित्रोकसि न्यवात्सीत् । एकदा राजीमतीं केनापि यत्नेनानुरागिणी वि. धाय स्वीयभोगाभिलाषां पूर्णा करिष्यामि, इति धिया रथनेमिस्तां वैराग्यवासितहृदयामपि मधुरालापयोग्यवस्तुप्रदानादिनाऽनुकूलयितुमारभत । तदीयदुर्भाव विदित्वा तत्प्रतिबोधार्थ सैकदा शिखरिणी निपीय तत्कालमागतं रथनेमिमालोक्य, तूर्ण मीढलफलप्रयोगेण वमित्वा तत्पातुं रथनेमि समूचे । सोऽवक्-' सुलोचने ! वान्तं कथं पीयेत ? ।' तदोक्तं तया- यद्येवं मनुषे तर्हि भगवता नेमिनाथेन वान्तं मदङ्गमुपभोक्तुं वाञ्छन्मनागपि कथं न लज्जसे १, धिग् धिक् त्वामीशगर्हितं चिकीर्षन्तम् । रथनेमे ! अकीर्ति कामयमानस्य तव जीवितान्मरणमेव श्रेयो भविष्यति, इती तथ्यं जानीहि । अहं हि श्रीनेमीश्वरं विना कमप्यन्यं सुरेन्द्रमपि नैव कामये, तर्हि त्वादृशां का गणना १,' इति श्रुत्वा रथनेमिर्विलक्षतामगमत् । ८३ भगवतो दीक्षाऽऽदानं कैवल्योत्पत्तिश्च
अथैकदा समागतैलॊकान्तिकदेवैर्वीर इव धर्मप्रवर्त्तनाय प्रतिबोधितः स्वयमप्यवधिज्ञानेन तदवसरं जानन् वार्षिकं दानं दत्त्वा, भगवानेमिनाथः श्रावणशुक्लषष्ठीतिथौ प्रथमे प्रहरे उत्तरकुराख्यायां शिबिकायामासीनो रेवताचलोद्यानेऽशोकतरोस्तले समाययौ । तत्र शिबिकात उत्तीर्य निजपाणिनैव सर्वाभरणादीनि समुत्तार्य, पञ्चमुष्टिलुञ्चनानि च कृत्वा षष्ठभक्तेन निर्जलेन चित्रानक्षत्रे चन्द्रयोगसमुपागते शक्रापितमेकं देवदूष्यं वसनं गृहीत्वा सहस्रपुरुषैः सह प्रवबाज । ततश्चतुपञ्चाशदिवसानि कायं व्युत्सृजन्नतिष्ठत् । पञ्चपञ्चाशत्तमदिन आश्विनकृष्णाऽमावास्यायां पश्चिमे प्रहरे रैवताचलोपरि वेतसीतरोस्तले चित्रानक्षत्रे चन्द्रयोगे विहितनिर्जलाष्टमतपसो भगवतः शुक्लध्यानं विद
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org