________________
( २०८ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
वक् - स्वामिन् ! तवैव विवाहोत्सवे समागतानां जनानामशनार्थमेते घानिष्यन्ते । तच्छ्रुत्वा प्रभुर्जगाद - धिग् घिगीदृशं नरकद्वारभूतं विवा हम्, नाऽहं चिकीरेतत् । तत्क्षणमेव गजादुत्तीर्य सर्वाञ्जीवान्मोचायत्वा रथमारुह्य परावर्त्तत । तदा समुद्रविजयकृष्णप्रमुखा यादवाः शिवादेवी च भगवन्तं निवत्र्त्तयितुं बह्वयतन्त परं भगवान् न न्यवृतत् । अभ्यधाच्च - ' सर्वे जीवा बन्धनादेव महादुःखमनुभवन्त्यतोऽहं महादुःखबन्धनहेतुभूतपुत्रकलत्रपितृमातृप्रमुखरागेऽतिष्ठन्नेव संसारममुमसारं जिहासामि, अतो यूयं निवर्त्तध्वम् ।
"
भगवत्परावर्त्तनवार्त्ता श्रुत्वैव विलपन्ती, हारं त्रोटयन्ती, वासांसि क्षिपन्ती, शिरोवक्षसी ताडयन्ती, कचकलापं किरन्ती, कङ्कणे च मणिबन्धतः समुत्तारयन्ती, सर्वाण्याभरणानि भञ्जती, निर्जले सरसि मत्सीव दुःखं नयन्ती राजीमती भूमौ पपात मुमूर्च्छ च । इत्थं विरहाग्निदग्धीकृतहृदया क्षणं रुदती, क्षणं पश्यन्ती, क्षणमाक्रन्दन्ती, क्षणं निःश्वसती, क्षणं मूर्च्छन्ती, क्षणं चेतन्ती, क्षणं कुप्यन्ती, क्षणमपश्यन्ती, राजीमती भगवन्तमुपालभत् -' यदुकुलकमलदिवाकर ! शरणागतवत्सल ! करुणासागर ! मामबलामसहायां यदकालेऽत्याक्षीस्तत्ते नैव घटते, जगति चराऽचरेषु दयां वितन्वन् मां विस्मरन् निर्लज इव निजमनः शतखण्डतां किमिति नाऽऽपादयसि ?, ' एवं विलपन्तीं तां मातापित्रादिवर्गः कथयितुं लग्नः - ' वत्से ! तव कापि गता नास्ति, स तु प्रथमत एव वैराग्यवानासीत् । विरागिणि रागकरणं कानने रोदनमिव वैफल्यमयते । अतस्तवेदृशी चिन्ता न घटते, पुनरनुरूपेण वरान्तरेण ते पाणिपीडनं कारयिष्यामि ।' गुर्वादेरुक्तिं श्रुत्वा राजीमत्यवदत् - मान्यतमाः ! यूयमेवं गर्हितं कथं बूथ ?, अहन्तु नेमिनाथचरणमेव शरणमकरवम् । नूनमहं तन्नाम्नैव स्वां सुभगां वेद्मि । स मे पाणिं नाऽग्रहीचेदहमेव तत्पाणिकमलं स्वशिरसि धापयिष्यामि । वरान्तरवरणन्तु स्वप्नेऽपि
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org