________________
सप्तमं व्याख्यानम् ।
(२०७) ८२ राजीमत्या हर्षविषादकथनं, बद्धपशुमोचनञ्च__ अथ गवाक्षाऽऽसीना सखीवृन्दसमन्विता सुसज्जिता राजीमती काञ्चित्सहचरीमपृच्छत्-'यो मे हरिष्यते कौमारं तं दर्शय ?,' समूचे सा— स्वामिनि ! योऽसौ गजराजोपरि सुखाऽऽसीनो मदनमूर्तिरिव भासमानो नेमिकुमारः समागच्छति, तमेव भाविनं प्राणप्रियं जानीहि ।' ततो राजीमती तमवलोक्य दध्यौ-' महन्मे भाग्यं यदयं मां परिणेष्यते ।' तदा चन्द्रानना जगाद-एष धरो मारविजित्वरीं सुषमां धत्ते, परं श्यामोऽस्ति । मम सख्यास्तु गौर एवाऽनुरूपो वरो भवितुमर्हति । राजीमत्यूचे-सखि ! किमशेव भाषसे ? । श्यामवे कियान् गुगो वर्त्तते तन्न वेसि ? । श्याम एव युवतीनां गौरवदनं विन्दुरूपेण लोचने च कजलरूपेण भण्डयते किश्च चित्रावल्ली कस्तूरी नवनीरदकचकषोपलप्रभृतयः श्यामा एव भवन्ति । अतो युवतीजनैः श्यामो नैव जात्वपि निन्दनीयः : केवलगौरस्तु लवणतुषाऽस्थितूलादयो भवन्ति, परमेते यात्रादौ शस्ता न भवन्ति । इत्थं सख्या विवदमाना लोचनाभ्यां वरं पिवन्ती राजीमती मनस्यमितमानन्दं बिभर्ति स्म । तदा तस्या दक्षिणाक्षि पस्पन्दे। तेन समीहितप्तिद्धावन्तरायः कश्चित्पतिष्यत्येवेति शङ्कमाना सखीमाचष्ट- मम दक्षिणं नयनं पास्पन्दीति न जाने किं भविष्यति ? ।' सख्युवाच-हर्षस्थाने किमिदं विपरीतं भाषसे ? । तदवसर एव नेमिरपि तोरणे समागच्छन्नधिमार्गमेकत्रभवनवाटके निगृहीतान्मृगाऽजमेषशशकलावकुकुटतित्तिरसारसबककोकिलमीनादीन् रोरूयमाणान् विना वारि म्रियमाणान् पशुपक्षिगणान् लोकं लोकं प्रभुः करुणापरो जज्ञे । तदा चैको हरिणयुगलो मिथो विलपन्नेमिमेवमभ्यर्थयाञ्चके-'प्रभो ! अस्माँस्त्रायस्व त्रायस्व, वयमपराधं विनैव वध्यभूमौ नीता अवश्यं करुणावरुणालयेन मोचनीयाः ।' प्रभुर्हस्तिपकमप्राक्षीत्-कथमेकत्रराशीकृता एते जीवा दृश्यन्ते ? । सोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org