SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सप्तमं व्याख्यानम् । ( ३११ ) द्राजीमत्यपि तस्मिन्नेवाऽवसरे भगवन्तमभिवन्द्य परावर्त्तमाना जलक्लिन्नवसना सती मार्गासन्नत्वात्तस्यामेव गुहायामागत्य, निर्जनत्वान्निर्वसनीभूय वासांसि शोषयितुं लग्ना । तदा तदङ्गमनावृतं विलोक्य कामकिङ्करीभूय त्यक्तवीडो रथनेमिस्तां भोगाय प्रार्थयितुं लग्नः । सा तु स्वाङ्गानि सगोप्य तमवादीत् भोः ! ' अहमुग्रसेनदुहितास्मि त्वमपि समुद्रविजयसूनुरसि । आवयोर्निर्मलं विशालं प्रख्यातिमत्कुलं तन्मलिनं मा कृथाः, चित्तं सुस्थिरं कृत्वा निरतिचारं चारित्रं परिपालय, येनाऽसारमपारममुं भवसागरं तरिष्यसि । नोचेद्धडवनस्पतिरिव विषयवातचालितः पुनः पुनर्भवाम्बुधावेव पतिष्यसि । ईदृक्सारोपदेशं निशम्य प्रतिबुद्धो रथनेमिर्मनः स्थिरं कृत्वा भगवत्पार्श्वे तदालोच्य, निर्दोषं चारित्रं परिपाल्य ज्ञानावरणीयादिकर्माणि क्षपयित्वा कैवल्यभागभूत् । अथ रोजीमती चतुःशताब्दीं सागारत्वे, वर्षमेकं छाद्मस्थ्ये, समाः पञ्चशतानि कैवल्ये, इत्थमेकोत्तरनवशतवर्षाणामायुर्भुक्त्वा श्रीनेमिनाथविभोः प्रागेव मोक्षमध्यगच्छत् । अत्रोत्प्रेक्षते कविः - भगवतः प्राक् सा यद्गान्मोक्षं, तन्मन्ये या मुक्तिकुमारी भगवन्तमलोभयत ?, सा किं श्रिया मत्तोऽधिकेति दिदृक्षमाणेव । " ८६ श्रीनेमिनाथस्य परिवारसंख्यानं, मोक्षगमनञ्च -- भगवतोऽरिष्टनेमेरष्टादशगणधराः, वरदत्तप्रमुखाः साधत्रः १८०००, आर्ययक्षिणीप्रमुखाः साध्व्यः ४००००, नन्दप्रमुखाः श्रावकाः १६९०००, महासुत्रताप्रभृतिश्राविकाः ३३६०००, चतुर्दशपूर्वधराः साधवः ४००, अवधिज्ञानिनो मुनयः १५००, केवलज्ञानिनः १५००, वैक्रियलब्धिमन्तः १५००, विपुलमतयः १०००, वादिमुख्याः साधवः ८००, अनुत्तरविमानगा एकावतारिणः १६००, मोक्षं गता साधवः १५००, सिद्धिं १ नेमीश्वरादष्टवर्षहीनाऽऽसीद्राजीमतीत्याचष्टे कश्चित् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy