SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सप्तमं व्याख्यानम् । (२०५) सफलोऽस्माकं प्रयासः । करिष्यत्यसौ विवाहम् । तास्तदैवाऽन्तिकमागत्य मातरं शिवादेवीं तत्सर्वमाचचक्षिरे । ततो भगवतः पाणिग्रहाभिलाषं बुद्ध्वा पितरौ मुमुदाते। ततः शिवादेव्या प्रेरिताः कृष्णसमुद्रवि. जयादयो राजान उग्रसेनराजस्य सदनं गत्वा भगवदर्थे राजीमती कन्यां ययाचिरे । सोऽपि सहर्ष स्वीचकार । तदोभयत्र विवाहमहो. त्सवः प्रववृते । सर्वां सामग्री सम्पादयितुं लग्नौ तयोर्मातापितरौ । भगवान् निःस्पृहीसन्नपि विनीतत्वान्मातापित्रोर्मनोरथमभञ्जन्नेव मौनमाधाय तस्थौ । ततो नैमित्तिकक्रोष्टुकदत्तलग्नदिवसे श्रावणशुक्लषष्ठ्यां तिथौ भगवन्मातापितरौ महताडम्बरेण महोत्साहेन जन्यं सजीकृत्य चेलतुः । तत्र षोडशसहस्रमिताभ्छत्रधरा राजानः, ऐरावतानुकारिणो दन्तिनो द्वाचत्वारिंशल्लक्षम्, एतावन्तस्तुरगाः स्वर्णाभरणविभूषिताः, एतावत्संख्यान्विताः सुसज्जिता रथाः, अष्टचत्वारिंशत्कोटिपत्तयः शत्रुदलविघातकुशलाः, एकैकस्मादनुपमा अश्वा नवकोटयः, षण्णवतिकोटयो दीपकर्त्तारो नराः ( नापिताः), नवकोटिमिता यष्टिधराः, अम्बरमुखराऽऽडम्बरकरणप्रवृत्तवाद्यमानवाद्यानामर्ककोटिः, साम्बप्रमुखा दुर्दान्ताः षष्टिसहस्रमिताः कुमाराः पारसिकजातीयतुरङ्गमारूढाः, अरिमर्दनप्रमुखाः पञ्चलक्षकुमारा बहोलीजातीयाऽश्वाऽऽरूढाः, प्रद्युम्नादयः कुमाराः पञ्चसप्ततिसहस्रमिता हयरेवाजातीयाऽश्वयायिनः, सप्तलक्षकुमारा वीरप्रमुखाः पानीपतजातीयतुरङ्गमाऽऽरोहिणः, सागरचन्द्रप्रभृ. तयो लक्षकुमाराः काम्बोजतुरगाऽऽरूढाः, अनाधृष्टिप्रमुखास्त्रयोदशलक्षकुमारा रेवाजातीयाऽश्वाऽऽरूढाः, पालकादयः सप्तलक्षकुमारा अष्टमङ्गलजातीयाऽश्वाऽऽरोहिणः, दण्डनेमिप्रमुखाः कुमारा अर्कलक्षमिता रेमङ्गलीजातीयाऽश्वाऽऽरूढाः, रथनेमिप्रमुखा नवलक्षकुमाराश्चन्द्रप्रभाजातीयाऽश्वाऽऽरोहिणः, महानेमिप्रमुखाः पञ्चदशलक्षमिताः कुमारा अग्निपन्थाजातीयतुरगाऽऽरूढाः, इत्थमेते यादवकुमारा भोगभ्रमराः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy