________________
(२०४)
श्रीकल्पसूत्रार्थप्रबोधिनी. दसि ?, चिन्तां मा कृथाः । एष नेमिराबालब्रह्मचारी द्वाविंशतितमस्तीथंकरो भविष्यति । अतुलां शक्तिं बिभ्रदपि तावकी समृद्धिं मनसापि नैव स्पृहयिष्यते' इत्याकाशवागाविरासीत् । तन्निशम्य स्वस्थीभूतः कृष्णः स्वस्थानमायातः। ८१ गोपीकृतविवाहप्रार्थनं, तदुत्सवश्व
अथैकदा त्रिंशद्वर्षीयं नेमिकुमारं संसारविमुखं दृष्ट्वा शिवादेवी सत्यभामादिगोपीरुवाच-यूयं वसन्तक्रीडनव्याजेन नेमिकुमारं वनं नीत्वा तथा प्रायतध्वं यथा झटित्यसौ रागीभूय कामपि कन्यामुद्वहेत। ततः सत्यभामाद्याः षोडशसहस्रगोप्यो मिलित्वा नेमिकुमारमभ्यर्थ्य सहस्राम्रवनं नीत्वा, विचित्रवचनास्ता नानाहावभावं दर्शयन्त्यः प्रार्थयितुं लग्नाः । तास्वेकाऽवदत्-भ्राता ते षोडशसहस्रं गोपिका उपयमे, त्वमेकामपि वोढुं न शक्नोषि तत्र को हेतुः ? । द्वितीयोचे-विद्युञ्चपलमिदं यौवनं वयः किं वृथा कुरुषे ?, कामपि मनोरमां परिणीय तारुण्यमदः सफलीकुरुष्व । तृतीयोचे-दारग्रहणमकुर्वञ्जनो मोक्षमपि लब्धं नार्हति । ऋषभादयस्तीर्थङ्करा अपि प्रथमं विषयरसं पीत्वैव पश्चादात्तव्रता मोक्षं ययुः । त्वं किं तेभ्योऽप्यधिको बुभूषसि ?, यदुद्वाहादुपरमसे। सत्यभामा जगौ-सख्यः ! यदेष सर्वासां नः प्रार्थनं नोररीकुरुते तर्हि वसनं गृहीत्वा बलादपि स्वीकारयितव्यम् । लक्ष्मणा जगाद-सखि ! एवं मा कृथाः, एष पूज्यो वर्त्तते । तेन सह बलात्कारकरणं न शोभते । वं किमेनमभ्यर्थयसे, एतस्मिन् पौरुषमेव नास्ति । नोचेद्विरागीभूय मदुक्तिं नोपेक्षेत । परमेनं कथयामि भवान् कामपि कन्यां परिणयतु । तस्या भरणपोषणादिकं तु षोडशसहस्राणामस्माकमिव ते भ्रातैव करिष्यते । तव तस्यापि चिन्ता नोद्भविष्यति । इत्थं सोपहासं तासां वचः श्रुत्वा नेमिनाथो जहास । तदा ताः करतालिकां ददाना ऊचिरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org