________________
सप्तमं व्याख्यानम् ।
(२०३) ८० नेमिनाथकृष्णयोर्मिथो भुजनमनम्__अथैकदा भगवान् वयस्यैः सह लीलां कुर्वन्नितस्ततः पर्यटन् कृष्णत्यायुधशालायां प्राविशत् । तत्र नानाशस्त्रास्त्राणि पश्यन्तं भगवन्तं बालं जानन्तो रक्षका ऊचुः---' त्वमधुना किशोरवया असि, अत एतेभ्यः पृथगेव तिष्ठ । यतस्तरुणैरेव पीतं तकं हितायते स्तनन्धयानान्तु पीतं विषायते। तथाप्यरिष्टनेमिस्तद्वाक्यमगणयञ्छ्रीकृष्णस्य चक्र कुम्भकारचक्रमिव चिरमविभ्रमत् । शांङ्ग धनुः कमलनालमिवाऽनीनमत् । कौमोदिकी गदामपि यष्टिमिव निजस्कन्धे धृतवान् । ततः शङ्ख पाञ्चजन्यनामकं दध्मौ । तेन गिरिशिखराणि तुत्रुटुः, सागरश्चुक्षुभे, गजाश्च मुक्तबन्धना बहिराययुः, लोका बाधिर्यं प्रापुः, नगर्याः प्राकारः पपात, वित्रस्ताः सर्वे यादवा मुमूर्छः, रामकृष्णादयोऽपि क्षुब्धाः किमिदं किमिदमिति जल्पन्तो व्याकुला बभूवुः । कोऽयं ?, इति पृष्टे लोका अबदन्-वामिन् ! आयुधशालां प्रविष्टो नेमिः पाश्चजन्यं धमन्नेवमकरोत् । तच्छ्रुत्वा चमत्कृति प्राप्तः कृष्णः समूचे-बन्धो! आगम्यतामावामधुना बलपरीक्षणं कुर्वः, कस्य भुजयोः कियती शक्तिरिति विद्मः ।' नेमिरुवाच-भूमिलुण्ठनादिखेलनेन बलपरीक्षा तु महतां पुंसां नैव प्राशस्त्यमर्हति, अत आवां मिथो भुजनमनक्रीडयैव बलं परीक्षयेव । इति नेमिकुमारोक्तिं कृष्गोऽपि मेने । ततः पुरुषोत्तमः स्वभुजं प्रसार्य — मम भुजं नमय ' इत्यवक् । ततो नेमिरेकयाऽङ्गल्यैव कमलनालमिव कृष्णभुजं नमयाञ्चके । तदनु नेमिनिजबाहुं वितस्तार, तं धृत्वा कृष्णश्चिरं सर्वाङ्गबलदानेनापि शाखामाश्रित्य कपिरिव झूलनमकरोत् , तथापि मनागपि नमयितुं न प्राभवत् । तदा नेमिर्जगौ-'बन्धो! माता देवकी खया शैशवे पालनायामान्दोलनं सम्यङ् नो कारितवती, अतोऽद्य त्वां झूलयामि ।' इत्युपहसितः कृष्णो दध्यौ-यदसौ बलीयानस्ति ग्रहीष्यति मे साम्राज्यम् । तदा 'भोः कृष्ण ! किमेवं विषी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org