________________
( २०२)
श्रीकल्पसूत्रार्थप्रबोधिनी. ७९ सुरनिबद्धरामकृष्णयोर्नेमिनाथेन मोचनम्
अथैकदा सौधर्मेन्द्रः स्वसभायां सकलदेवसमक्षं नेमिनाथस्य बलं तोष्टवाञ्चकार । तदश्रद्दधानो मिथ्यात्वी देवस्तदैव रैवतकाचलोपरि सुरन्धराभिधां नगरी निर्माय मानवरूपेण निवसन् द्वारकातः समागताँल्लोकान् बाधितुमारभत । तदा महामानी अनाधृष्टिलोकबाधाकारिणं तं देवं निग्रहीतुं तत्राऽऽगात् । ततो जायमाने मिथो युद्धे स देवमाययाऽनाधृष्टिं पराजित्य बद्ध्वा निजनगरं निनाय । एनां वार्ता श्रुत्वा समुद्रविजयादयः स्वयमेव तत्र गन्तुमुद्यता अभूवन् ! तदवसरे रामकृष्णौ सर्वान्निवार्य तत्राऽऽयातौ। तावपि विजित्य निबध्य कारागारेऽतिष्ठिपसुरः। तेन द्वारिकायां सर्वत्र कोलाहलः प्रससार- हं हो ! रामकृष्णयोः पराजितयोः को नस्त्रायेत' सर्वे यादवाश्चिन्तातुराश्च बभूवुः । तदा सत्यभामाद्या नेमिनाथमूचिरे–देवर ! ' त्वमनन्तबली श्रूयसे तदपि ते बान्धवान् कश्चिदरातर्जित्वा बवा कारागारेऽक्षिपत् । त्वं तादृशीं शक्तिं बिभ्रदपि निश्चिन्त एव तिष्ठसि, याहि पौरुषं दर्शय, बन्धून्मोचय।' इत्थमभ्यर्थितो नेमिनाथ एकाक्येव रथारूढस्तत्राऽऽगत्य विपक्षनगरी परितः स्वरथं परिभ्राम्यन् गोशीर्षसहितं प्राकारं न्यपीपतत् । ततो देव एनं नेमिनाथं भापयितुं सिंहान् ससर्ज । तानभिमुखमागच्छतः श्रीनेमीश्वरो धनुषष्टङ्कारनादेन व्यलीलयत् । देवस्ततो ध्वान्तास्त्रममुचत्, तेन हि सकलं ध्वान्तमयमभूत् । तदपि प्रभुरुद्योतमयमिपुं विमुच्य बेभिदाञ्चकार । ततो मेघ वर्षयन्तं सुरं विलोक्य प्रभुः पवनमुदपीपदत्, तेन मेघाश्छिन्नभिन्नतां ययुः । ततः सुरेण वह्निवर्षणे प्रारब्धे जलवर्षणमसीसृजत्प्रभुः। प्रान्ते भगवान् मोहमयं शरं ववर्ष, तेन सगणो देवो मुमूर्छ । तदा सौधर्मेन्द्रस्तत्राऽऽगात् । प्रभुमनुनीयमानोऽवदत्'प्रभो ! अमुना मौर्यमकारि, तावकं बलमेष मन्दधीः कथं जानीयात् ? ' इति जल्पन्निन्द्रस्तं सुरं त्रातवान् । ततो लब्धचेतनो देवो महतोत्सवेन कृष्णादीन् द्वारिकामनयन्नेमिनाथमभिवन्द्य स्वस्थानमगमत्।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org