________________
सप्तमं व्याख्यानम् ।
(२०१) यादवाः सुखेन निवसन्तः पुत्रपौत्रादिपरिवारेण वर्धमानाः पञ्चाशदन्द्या षट्पञ्चाशत्कोटिका अभूवन् । इतश्च कश्चिद्रत्नकम्बलव्यापारी राजगृहमागत्य जगाद-यदस्यां पुर्यामेकोऽपि क्रयविक्रयकारी धनाढ्यो व्यापारी नास्ति यो मदीयरत्नकम्बलं महामेकमपि क्रीणीयाद् द्वारिकायां तु यादवाः सुखिनः सर्वर्द्धिसंपन्ना निवसन्ति । इति यादवानां प्रशंसां श्रुत्वा जरासन्धो राजा ' हं हो ! किमद्यापि मद्विपक्षा यादवा जीवन्त्येव , अत इदानीमेव तत्र गत्वा तान् विहन्याम् ' इति निश्चित्य चतुरङ्गयामितया चम्बा सह राजगृहात्प्रयाणमकरोत् । इतश्च नारदो द्वारिकामागत्य तदागमनं कृष्णं व्यसूचयत् । तदा कृष्णोऽपि सकलयादवदलपरिवृतो महताडम्बरेण द्वारिकापुरीतो निर्गत्य पञ्चासराणामासनमागत्य तस्थिवान् । जरासन्धस्यापि चमूस्ततश्चतुर्योजनान्तरे शिविरमकरोत् । कृष्णसेना गरुडव्यूहेन जरासन्धस्य चमूश्चक्रव्यूहेन तस्थौ । ततश्च प्रववृते सैन्ययोरुभयो!रतरः सङ्घामः । कतिलक्षसैन्यानि मम्रः । तत्र कृष्णं दुर्जेयं मत्वा जरासन्धो जरानामकं नाराचं कृष्णसैन्ये चिक्षेप, तेन सकलापि यादवीया सेना रुधिरसुद्वमन्ती मूछोंमापत् । तदा नेमीश्वरोपदेशात्कृष्णोऽष्टमं तपश्चक्रे, तेन धरणेन्द्र आगत्य कृष्णाय पाश्वनाथस्याऽऽगामितीर्थकृतः प्रतिमामदात् । ततो माङ्गलिकं सुस्थितदेवार्पितं शङ्ख कृष्णो दध्मौ, अतिष्ठिपञ्च तत्र धरणेन्द्रार्पितं श्रीपार्श्वनाथबिम्बम् । तत्स्नात्रजलेन निजसेनाझं सिक्त्वा सज्जी कृतवान् । प्रान्ते कृष्णं हन्तुमुपायान्तरमलममानो जरासन्धस्तदुपरि चक्ररत्नं मुमोच । स तदागत्य त्रिःपरिक्रम्य कृष्णपाणावतिष्ठत् । ततस्तदेव चक्र जरासन्धोपरि निरस्यत्कृष्णस्तेन विच्छिन्नशिरा अभूजरासन्धः । तदवसरे देवदुन्दुमयो नेदुः, सुरकृताऽऽकाशवागाविरासीत्-' यदेष नवमो वासुदेवो जातः कृष्णः।' तच्छ्रुत्वा सर्वे जरासन्धपक्षीया सैनिकाः समेत्य कृष्णचरणयोनिपेतुर्भेजुश्चतदादेशम् । ततः सर्वे यादवाः सहर्ष द्वारिकामाययुः । तत्र द्वासप्ततिकुल कोटिमिता यादवा अन्तर्निवसन्ति, पष्टिकुलकोटियादवाश्च बहिर्निवसन्ति स्म । बलदेवप्रभृतयः पञ्चमहावीरा आसन् । उग्रसेनादयः षोडशसहस्रं राजानस्तत्र न्यवात्सुः। सार्धत्रिकोटिः प्रद्युम्नादिकुमाराणाम् । साम्बादिदुर्दान्तकुमाराः षोडशसहस्रम् । वीरसेनप्रमुखा एकविंशतिसहस्रं वीराः । महासेनप्रभृतयः षट्रपश्चाशत्सहस्रसंख्या बलवन्तो राजानः । रुक्मिणीप्रमुखा द्वात्रिंशत्सहस्रसंख्यका राज्यः । इत्थमतुलपरिवारपरिवृतः श्रीकृष्णस्तत्र द्वारिकायां राज्यसुखमनुभवमास्ते ।।
भत्र केचिदाहुः-अष्टमे तपसि संस्थिते कृष्णे शक्रप्रेषितरथारूढो भगवान्नेमिनाथो युधि समागत्य शङ्खमधमत् । तन्नादन वित्रस्ता समस्तापि वैपक्षी सेना कान्दिशीका ननाश ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org