________________
(200)
1
युगलं प्रस्तूयेत तत्रैव वस्तव्यम् । तच्छ्रुत्वा एकादशकुलकोटियादवाः समुद्रविजयादयः शौरीपुरात्, मथुरात उग्रसेनप्रमुखाः सप्तकोटियादवाश्च निर्गत्य सौराष्ट्रदेशं प्रति चेलुः । इतश्च राजगृहनगरे सोममुखाद्यादवौद्धत्यं श्रुत्वा समुद्भूतप्रभूतकोपाद यादवकुलजिहिंसया प्रयातुमुद्यतं पितरं जरासन्धं कालकुमारः प्रोचे - नूनमहं सकलयादवानुद्धतान् हनिष्यामि, करिष्यामि च स्वनाम किलाऽन्वर्थम् । चेदाकाशं वजिष्यन्ति तत्रापि नि:श्रेणिकामारोप्य गत्वा कृतान्तातिथीन् विधास्यामि । पातालं जलं वा प्राविशचेत् तत्रापि प्रविश्य सपरिवारोंस्तान् व्यसून् करिष्यामि । अग्नौ वा प्रवेदयन्ति चेत् तत्रापि प्रविश्य तेषामनादास्ये । इत्थं प्रतिज्ञाय पश्चशतसहोदरसहितः सकल सुसज्जित चमूदलपरिवृतः कालकुमारचचाल । तदवसरे जीवयशा तस्मा श्राशिषं ददौ - ' भ्रातः ! श्रगणयमेव मृत्युं यादवान् हन्यादेव । ' ततो महोत्साही कालस्त्वरया व्रजमेक दिनमात्रमार्गान्तराले तस्थौ । तावतीर्थ प्रवर्त्तकने मी श्वररामकृष्ण प्रमुख महापुरुषाणां पुण्यपुजयोगादाकृष्टा यादवकुलदेवी द्वयोः शिविरान्तराले महागिरिं निर्माय, तन्मार्गे महतीमेकां चिताश्च प्रदीप्य तत्समीपे वृद्धरमणीरूपेण रोदितुं लग्ना । तामेवं पप्रच्छ कालः - ' त्वं कासि १, कथमेवं रोरुद्यसे ?, को वा चितायामेतस्यामज्वलत् १ । ' वृद्धाऽवदत् - 'वत्स ! कालकुमारात् त्रस्ताः सर्वे यादवाः सकलत्राश्रितायामेतस्यां प्राविचन् कोऽपि नाशिनद्, अतोऽहं तेषां कुलदेवी दुःखाद्रोदिमि । ' इत्थं कुलदेव्या छलितः कालकुमारः कियद्भिः सामन्तैर्भ्रातृभिश्च सहितः कृतप्रतिज्ञापूर्त्तये तस्यामेव चितायां निपातं निपातं भस्मसादजायत । अवशिष्टाः सामन्ताः परावर्त्तमाना राजगृहमागत्य यथाजातं सकलं जरासन्धं निवेदयाश्चक्रुः ।
श्रीकल्पसूत्रार्थप्रबोधिनी.
अथ यादवाः सर्वे निर्विघ्नाः सुखेन पश्चिमवार्द्धितीरमागुः । तत्र सत्यभामा पुत्र युगलमजीजनत् । ततस्तत्रैव सर्वे यादवा नैमित्तिकोक्तवचसा तस्थुः, तदा श्रीकृष्णोSष्टमतपसा सुस्थितदेवमाराध्य निवासार्थं भूमिमयाचत । सोऽपि प्रत्यक्षीभूय तमुवाच - दास्यामि ते शक्रादेशेनेत्युदीर्य शक्रान्तिकमागत्य कृष्णोक्तमवादद्भिवणाधिपतिः । तदा शक्रप्रेषितः कुबेरः समागत्य दैर्ध्य द्वादशयोजन प्रमाणां विस्तारत्वे नवयोजनप्रमाणां द्वारिकापुरीं निर्माय, तामभित औन्नत्येऽष्टादशहस्तप्रमाणम्, स्थौन्ये द्वादशहस्तमात्रम्, निम्नत्वे च नवहस्तप्रमाणं प्राकारं, तदुपरि रत्नमयीं गोशीर्षरचनां व्यदधात् । तद्बहिश्चतुर्दिक्षु वर्त्तुलां परिखां निर्ममौ । नगरान्तर्वापीकूपतटाकवाटिका रामादीन्निर्माय कृष्णा निवासाय साप्तभौम्यं कन्पतरुवनविभूषितं गृहारामसहितं दिव्यं मञ्जुलतरं सौं निरमिनोत् । तत एकस्यां दिशि समुद्रविजयादिदशबन्धूनां पृथक् पृथक् सौधान् राजाहन् । अपरस्मिन्भागे उग्रसेनप्रमुखानां धनधान्यवसनविभूषणादिसम्भृतान् प्रासादाभिमय, सर्वमेतद् दिनत्रयेण कृत्वा कृष्णं निवस्तुमादिश्य स्वस्थानमाययौ । ततः सर्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org